SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ 180 सूत्रार्थः प्राकृत व्याकरणम् संस्कृत ‘“कबन्ध” शब्दस्य अनादौ विद्यमाने "ब्” कारस्य स्थाने प्राकृते “म्” कारादेशः भवति । यथा कबन्धः > कमंधो, कयंधो " कबन्धः" इति स्थिते - "कबन्धे बो मः" (प्रा. २.१९) इत्यनेन 'ब्' कारस्य “म्” कारे, “कमन्ध" इति जाते "नञोर्हलि” (प्रा. ४.१४) इत्यनेन सूत्रेण 'न्' कारस्य हलिपरे बिन्दुत्वे (अनुस्वारे), "कमंध" इति प्राप्ते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने "सु" इत्यस्य "ओत्वे”, “कमंधो” इति रूपं सिद्धम् । समन्वयः “कमंध” (मस्तकहीन शरीरम् ) शब्दः पुंलिङ्गे तथा नपुंसकलिङ्गे व्यवह्रियते। “कमंध” शब्देस्य पर्य्यायवाची “कयंध”। अस्य सूत्रस्य सुबोधिनीसञ्जीवनीटिका नोपलभ्यते । आ. बलदेव उपाध्यायेन सम्पादित पुस्तके मनोरमा टिकायाम् "कबन्धे बो यः” इति प्राप्यते । प्राकृत शब्दमहार्णवे “कयंध" (पृष्ठा २२६) "कमंध" (पृ. २२३) उभयंप्राप्तम् । तस्मात् सूत्रे ‘म्’ तथा ‘य्' उभयस्य सन्निवेशमावश्यकमिति स्वमतम् । २०. टो ड़ सुबोधिनी अयुक्तस्यानादिस्थितस्य टस्य डः स्यात् । फुडं । अयुक्तस्येति किम्? घण्टा । अनादाविति किम्? टंकारो ॥ १८ ॥ सञ्जीवनी ट इत्वक्षरं षष्ठ्यन्तम् । अयुक्तस्य अनादौ स्थितस्य टस्य डकारादेशो भवति । रडिअं फुडं कुक्कुडो । रटितस्फुटकुक्कुटेषु। अयुक्तस्येति किम्? भट्टो घण्टा । अनादाविति किम् ? टंकारो टङ्कारः । 'अदातो यथादिषु वा' इत्याकारस्य न अत्त्वम् ॥ १८ ॥
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy