________________
179
अयुक्तविधिः मनोरमा
छायाशब्दे ‘य' कारस्य हकारो भवति। छाहा। अम्बिका
“अयुक्तस्यानादौ' (प्रा. २.१) इत्यतः “अनादौ" तथा "उत्तरीयानीययोर (यो) ज्जो वा” (प्रा. २.१७) इत्यतः ‘यः' पदद्वयमनुवर्तते। सूत्रार्थः
संस्कृतस्य 'छाया' शब्दस्य अनादौ विद्यमाने "य" कारस्यस्थाने प्राकृते 'ह' कारादेशः भवति। यथा
छाया > छाहा 'छाया' इति. स्थिते "छायायां हः” (प्रा. २.१८) इत्यनेन सूत्रेण अनादौ विद्यमाने 'य' कारस्य ‘ह्' कारे "छाहा" इति रूपं सिद्धम्। समन्वयः
कतिपय विदुषां मतैः सूत्रे 'वा' पदस्य (विकल्पार्थम्) अनुवृत्तिरपि वर्तते। अतः विकल्पपक्षे “य्' कारस्य “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण लोपे “छाआ” इति रूपमपि प्राकृते उपलभ्यते। १९. कबन्धे बो मः प्राकृतमञ्जरी
कबन्धे वर्तमानस्य हलो यत्वमिहेष्यते।
अधिकाराद् बकारस्य कयन्धं तं विदुर्बुधाः।। मनोरमा
कबन्ध शब्दे बकारस्य 'म' कारो भवति। कमंधो। अम्बिका
"अयुक्तस्य अनादौ” (प्रा. २.१) इत्यतः “अनादौ” पदमनुवर्तते।