________________
178
प्राकृत व्याकरणम् रमणीयम् > रमणीअं "रमणीयम्” इति स्थिते “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'य' कारस्य लोपे, “रमणीअ" इति जाते "सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके "सु" इत्यस्य बिन्दुत्वे (अनुस्वारे) “रमणीअं” रूपं सिद्धम्।
रमणीयम् > रमणिज्जं 'रमणीयम्' इति स्थिते "उत्तरीयानीययोर (यो) ज्जो वा' (प्रा. २.१७) इत्यनेन सूत्रेण अनादौ विद्यमाने 'य' कारस्य विकल्पेन ‘ज्ज्' कारे, “रमणीज्ज" इति जाते “इदीत पानीयादिषु" (प्रा. १.१८) इत्यनेन सूत्रेण दीर्घ “ई” कारस्य ह्रस्व 'इ' कारे, “रमणिज्ज" इति प्राप्ते "सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) “रमणिज्जं" रूपं सिद्धम्। समन्वयः
मनोरमाकाराभिमतं सूत्रपाठे “यः” कारः नास्ति। परन्तु ‘यः' इत्यस्य आवश्यकतां वर्तते। अन्यथा “आपीड़े मः" (प्रा. २.१६) इति पूर्ववर्ती सूत्रतः “पः' इति पदस्य अनुवृत्तिः अनिवार्यम्। “चन्द्रिका" आदि व्याख्यायाम् ‘यः' कारस्य स्थिति युक्तंतथाऽत्रेवग्रहणीयम्। १८. छायायां हः सुबोधिनी
अत्र यस्य हः स्याद् वा। छाही छाहा छाआ। आतपाऽभाव इति वक्तव्यम्। तेन कणअछाअमित्यादौ कांतिवाचित्वाद् न भवति॥ १७। सञ्जीवनी
य इत्यनुवर्तते। वेति च। छायाशब्दे यकारस्य हकारादेशः स्याद वा। छाही छाहा छाआ छायैव। हत्वपक्षे एकत्र आदीतो बहुलमिति ईप्रत्ययः। आतपाभाव इति वक्तव्यम्। तेन कणअछाअं अगं। पउमछाअं मुहं इत्यादौ न भवति॥ १७॥