________________
अयुक्तविधिः प्राकृतमञ्जरी
उत्तरीयपदे यस्य जकारः स्याद् द्विरुक्तिमान् । अनीयप्रत्यये चैवं विकल्पेन विधीयते ॥
उत्तरीयं विदुः प्राज्ञा उत्तरिज्जं यथा तथा । करणीयमिति प्राहुः करणिज्जं पुरेव वा ॥ १७ ॥
177
मनोरमा
उत्तरीय शब्देडनीयप्रत्ययान्ते च यस्य ज्जो भवति वा । उत्तरीअं; उत्तरिज्जं; अमणीअं, रमणिज्जं । भरणीअं, भरणिज्जं ।
अम्बिका
"अयुक्तस्यानादौ” (प्रा. २.१७) इत्यतः “ अनादौ ” पदमनुवर्त्तते ।
सूत्रार्थः
संस्कृत उत्तरीय तथा अनीय (अनीयर) प्रत्ययान्त शब्दानामनादौ विद्यमाने "यू" कारस्य स्थाने प्राकृते विकल्पेन “ज्ज्” कारादेशः भवति ।
यथा
उत्तरीयम् > उत्तरीअं
'उत्तरीयम्' इति स्थिते " कगचजतदपयवां प्रायो लोपः” (प्रा. २. २) इत्यनेन सूत्रेण 'य्' कारस्य लोपे, “उत्तरीअ" इति स्थिते "सोर्बिन्दुनपुंसके" (प्रा. ५.३० ) इत्यनेन सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) "उत्तरीअं" इति रूपं सिद्धम् ।
उत्तरीयम् > उत्तरिज्जं
'उत्तरीयम्' इति स्थिते "उत्तरीयानीययोर (यो) ज्जो वा" (प्रा. २.१७) इत्यनेन सूत्रेण अनादौ विद्यमाने 'य्' कारस्य विकल्पेन “ज्ज्” कारे, "उत्तरीज्ज” इति स्थिते "इदीतः पानीयादिषु" (प्रा. १.१८) इत्यनेन सूत्रेण दीर्घ "ई" कारस्य ह्रस्व 'इ' कारे, "उत्तरिज्ज" इति प्राप्ते “सोर्बिन्दुनपुंसके” (प्रा. ५.३० ) इत्यनेन सूत्रेण 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) "उत्तरिज्जं " रूपं सिद्धम् ।