________________
प्राकृत व्याकरणम्
176
अम्बिका
"
" अयुक्तस्यानादौ” (प्रा. २.१) इत्यतः " अनादौ ” तथा पोवः (प्रा. २.१६) इत्यतः ‘पः’ इति पदद्वयमनुवर्त्तते ।
सूत्रार्थः
संस्कृत आपीड़ शब्दस्य अनादौ विद्यमाने 'प्' कारस्य स्थाने प्राकृते 'म्' कारः भवति ।
यथा
आपीड़ः > आमेलो
" आपीड़" इति स्थिते " आपीड़े मः " (प्रा. २.१६) इत्यनेन सूत्रेण 'प्' कारस्य 'ड़' कारे " आमीड़" इति जाते, “एन्नीड़ापीड़कीदृशी दृशेषु ” (प्रा. १. १९) इत्यनेन सूत्रेण 'ई' कारस्य 'ए' कारे, "आमेड़” इति जाते "डस्य च” (प्रा. २.२३) इत्यनेन सूत्रेण 'ड्' कारस्य 'ल्’ कारे " आमेल” इति जाते, "अत ओत् सोः" इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य "ओत्वे”, 'आमेलो' रूपं सिद्धम् । १७. उत्तरीयानीययोर् (यो) ज्जो वा
सुबोधिनी
उत्तरीयशब्दस्यानीयस्य च सम्बन्धी यो यकारस्तस्य ज्ज इत्यादिश्यते । उत्तरिज्जं रमणिज्जं उत्तरीअं रमणीअं ॥ १६ ॥
सञ्जीवनी
य इत्यक्षरं षष्ठ्यन्तम् । उत्तरीयशब्दे अनीयप्रत्यये च यकारस्य द्वित्वापन्नो ज इत्यादेशो भवति वा । उत्तरिज्जं उत्तरीअं उत्तरीयम् । यत्र पक्षे ज इत्यादेशः तत्र इदीतः पानीयादिषु इति इत्त्वम् । रमणिज्जं रमणीअं रमणीयम् । करणिज्जं करणीअं करणीयम् । ननु शेषादेशयोर्द्वित्वमनादाविति द्वित्वे सिद्धे किमर्थो द्विजकारक आदेशः ? असदेतत्, तत्र युक्तस्येत्यधिकाराद् युक्तवर्णादेशानां तत्र विधिः । अत्र तु युक्तानां वर्णानामादेश इति कथमेषां द्वित्वं स्यात्॥ १६॥