________________
अयुक्तविधिः
175 ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्ति एकवचने 'सु' इत्यस्य “ओत्वे", "सावो" इति रूपं सिद्धम्। .
। शपथः > सवहो "शपथः” इति स्थिते "शषोः सः” (प्रा. २.४३) इत्यनेन सूत्रेण "श्" कारस्य “स्” कारे “सपथ" इति स्थिते, “पोवः” (प्रा. २. १५) इत्यनेन सूत्रेण “प्" कारस्य "व्" कारे “सवथ" इति स्थिते "खघथधभां हः” (प्रा. २.२७) इत्यनेन सूत्रेण "थ्" कारस्य 'ह' कारे “सवह" इति जाते, “अत ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य ‘ओत्वे', “सवहो" इति रूपं सिद्धम्।
उलपः > उलवो "उलपः” इति स्थिते “पोवः” (प्रा. २.१५) इत्यनेन सूत्रेण 'प्' कारस्य ‘व्' कारे “उलव” इति जाते, “अत ओत् सोः” (प्रा. ५. १) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य
ओत्वे "उलवो" इति रूपं सिद्धम्। १६. आपीड़े मः सुबोधिनी
अत्र मः स्यात्। आमेलो॥ १५॥ सञ्जीवनी ___प इत्यनुवर्तते। आपीडशब्दे पस्य मत्वं स्यात्। वत्वं प्राप्तम्। आमेलो आपीडः। एन्नीडापीडेत्यादिना ईकारस्य एत्वम्॥ डस्य चेति डस्य लः॥ १५॥ प्राकृतमञ्जरी
आपीडे वर्तमानस्य पूर्वसूत्रापवादतः।
पस्य स्यान्मत्वमापीडमामेलं वाग्विदो विदुः॥ १६॥ मनोरमा
आपीड़शब्दे पकारस्य मकारो भवति। आमेलो।