________________
174
प्राकृत व्याकरणम् नुरोधतः' इति ऊत्वम्। खधथादिना भस्य हः। दुहवेत्यत्र ऊदुत इत्यादिना ऊत्वम्॥१४॥ प्राकृतमञ्जरी
पकारस्य वकारः स्याच्छब्दे शब्दे विधानतः। कपालं तत् कवालं स्यात् कोपः कोवो वपा ववा॥ ननु चोद्यते किं न्वेतत् प्रायो लोपविधौ पुनः। पकारः पठितस्तेषां मध्यतः स्थांनिनामिति॥ उच्यते बहुलत्वेन पस्य वत्वं न दूषणम्।
प्रायोलोपश्च दृश्येत वापी वाई कपिः कई॥ मनोरमा
पकारस्यायुक्तस्यानादिवर्तिने वकारादेशो भवति। सावो। सवहो। उलवो। शापः। शपथः। उलपः। प्रायोग्रहणाद्यत्र लोपो न भवति तत्रायं विधिः॥ अम्बिका
"अयुक्तस्यानादौ" (प्रा. २.१) इत्यतः “अयुक्तस्य" तथा "अनादौ", पदद्वयमनुवर्तते। परन्तु सूत्रमिदं “कगचजतदपयवां प्रायो लोपः" (प्रा. २.२) इति लोप सूत्रस्य अपवाद सूत्रम्। सूत्रार्थः
संस्कृत शब्दानामयुक्तानामनादौ विद्यमाने “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इति सूत्रेण अलुप्त ‘प्' कारस्य स्थाने 'व्' कारः भवति। यथा
शापः > सावो “शापः" इति स्थिते “शषोः सः" (प्रा. २.४३) इत्यनेन सूत्रेण 'श्' कारस्य ‘स्' कारे “साप” इति स्थिते, “पोवः” (प्रा. २.१५) इत्यनेन सूत्रेण ‘प्' कारस्य ‘व्' कारे “साव'' इति जाते, “अत