________________
173
अयुक्तविधिः
द्वादशः > बारह 'द्वादश' इति स्थिते “उपरि लोपः कगडतदपषसाम्" (प्रा. ३. १) इत्यनेन सूत्रेण आदिभूतस्य 'द्' कारस्य लोपे बादश इति स्थिते, "संख्यायाञ्च" (प्रा. २.१४) इत्यनेन सूत्रेण 'द्' इत्यस्य 'र' कारे बारश इति स्थिते, “दशादिषु हः" (प्रा. २.४४) इत्यनेन सूत्रेण 'श्' कारस्य ‘ह्' कारे "बारह" इति रूपं सिद्धम्।
त्रयोदश > तेरह अस्य प्रक्रियां प्रथम परिच्छेदस्य “ए शय्यादिषु" (प्रा. १.५) इति सूत्रप्रसङ्गे द्रष्टव्यम्। १५. पो वः प्राकृतप्रकाशः
पस्य लोपस्तथा वत्वं ज्ञेये लक्ष्याऽनुसारतः।
सुभगाया भवत्यत्र दुर्भगायश्च गस्य वः॥ १४॥ सुबोधिनी
अयुक्तस्यानादिस्थितस्य पस्य वः स्यात्। कवालो कपालः। अनादाविति किम्? पई पतिः। अयुक्तस्येति किम्? विप्पो विप्रः। ननु रेफलोपे कृते यावद् द्वित्त्वं न भवति तावदेव वत्वं कथं न स्यादित्युच्यते कृताकृतप्रसिङ्गत्त्वाद् द्वित्वस्यैव प्रवृत्तेः। सञ्जीवनी
प इत्यक्षरं षष्ठ्यन्तम्। अयुक्तस्यानादौ स्थितस्य पकारस्य वकारादेशो भवति। कवालो उल्लावो कपालोल्लापयोः। कवोलो उवमा कपोलोपमयोः। अयुक्तस्येति किम्? विप्पो सप्पुरिसो। विप्रसत्पुरुषयोः। ननु रेफतकारयोर्लोपे कृते यावद् द्वित्वं न प्रवर्तते तावत् पस्य वत्वं कथं न स्यादित्युच्यते। कृताऽकृतप्रसङ्गित्वाद् द्वित्वस्यैव प्रवृत्तेः। अनादाविति किम्? पई पंडिओ पतिपण्डितयोः। पलोपं प्रति कगचादिसूत्रस्याविषयविभागो लक्ष्यवशात्। 'सुभगाया भवत्यत्र दुर्भगायाश्च गस्य वः'। सूहवा सुभगा दूहवा दुर्भगा। 'ईदूताविदुतोः स्थाने स्यातां लक्ष्या