________________
172
। प्राकृत व्याकरणम् संख्यां बिना भवेदिति जश्शस्ङस्यांसु दीर्घः इति प्राप्तस्य दीर्घस्याभावः। आयुक्तस्येति किम्? चउद्दह चतुर्दश। अनादाविति किम्? दह दश॥१३॥ प्राकृतमञ्जरी
संख्यायां सत्सु शब्देषु स्याद् दकारम्य रेफता।
अष्टादशाट्ठारह स्यात् तथा द्वादश बारह॥ १४॥ मनोरमा
संख्यावाचिनी शब्दे यो दकारस्तस्य रेफादेशो भवति। एआरह। बारह। तेरह। एकादश-द्वादश-त्रयोदशाः।
अयुक्तस्येत्येव नेह - चउद्दह। अम्बिका
"अयुक्तस्यानादौ" (प्रा. २.१) इत्यतः अयुक्तस्य, अनादौ, "प्रदीप्तकदम्बदोहदेषु दो लः" (प्रा. २.१२) इत्यतः 'दः', “गद्गदे रः" (प्रा. २.१३) इत्यतः “रः" इति पदानि अनुवर्तन्ते। सूत्रार्थः
संस्कृतस्य संख्यावाचक शब्दानाम् अनादौ विद्यमाने असंयुक्त "द्" कारस्य स्थाने प्राकृते 'र' कारः भवति। परन्तु आदौ विद्यमाने 'द' कारस्यापि 'र' कारः न भवति। यथा- दश दह, एवञ्च, 'चतुर्दशः' संख्यावाचक शब्दोऽपि 'द्' कार संयुक्तत्वात् अत्र 'द्' कारस्य 'र' कारः न प्राप्तं, तस्मात् कारणात् “चउद्दह"। यथा
एकादश > एआरह 'एकादश' इति स्थिते “कगचजतदपयवां प्रायो लोपः” (प्रा. २. २) इत्यनेन सूत्रेण 'क्' कारस्य लोपे, एआदश इति प्राप्ते “संख्यायाञ्च" (प्रा. २.१४) इत्यनेन सूत्रेण 'द्' कारस्य 'र' कारे, एआरश इति जाते "दशादिषु हः" (प्रा. २.४४) इत्यनेन सूत्रेण दशादिषु अष्टादशं पर्यन्तेषु 'श्' कारस्य ‘ह्' कारे 'एआरह' इति रूपं सिद्धम्।