SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 171 अयुक्तविधिः अम्बिका __“अयुक्तस्यानादौ" (प्रा. २.१) इत्यतः “अनादौ" तथा “प्रदीप्तकदम्बदोहदेषु दो लः” (प्रा. २.१२) इत्यतः ‘दः' पदद्वयमनुवर्तते। सूत्रार्थः __ संस्कृत “गद्गदः" शब्दस्य अनादौ विद्यमाने (अन्त्य) 'द्' कारस्य स्थाने प्राकृते 'र' कारः भवति। यथा गद्गदः > गग्गरो “गद्गद" इति स्थिते "उपरि लोपः कगडतदपषसाम्” (प्रा. ३. १) इत्यनेन सूत्रेण द् कारस्य लोपे “गगद" इति स्थिते, "शेषादेशयोर्द्वित्वमनादौ” (प्रा. ३.५०) इत्यनेन 'ग्' इत्यस्य द्वित्वे "गग्गद" इति स्थिते “गद्गदे रः” (प्रा. २.१३) इत्यनेन सूत्रेण 'द्' (अन्त्य) इत्यस्य 'र' कारे “गग्गर" इति जाते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा, भिक्ति एकवचने 'सु' इत्यस्य “ओत्वे" "गग्गरो" इति रूपं सिद्धम्। १४. संख्यायाञ्च सुबोधिनी ___ संख्याशब्दे अयुक्तस्यानादौ स्थितस्य दस्य रः स्यात्। एआरह एकादश। अयुक्तस्येति किम्? चेउद्दह चतुर्दश॥१३॥ सज्जीवनी ____द इति वर्तते। र इति च। अयुक्तस्यानादाविति च। संख्यावाचिनी शब्दे अयुक्तस्यानादौ स्थितस्य द स्यरेफादेशः स्यात्। एआरह एकादश। कगचादिना कलोपः। दशादिषु ह इति शस्य हः।। अन्त्यस्य हल इति नलोपः। बारह तेरह द्वादश त्रयोदश। 'लोपः साचो यकारस्य क्वचिन्नित्यं क्वचिन्न वा' इति यलोपः। सन्धावचामित्यादिना अकारविसर्गयोरेत्त्वम्। पण्णरह पञ्चदश। म्नज्ञदिना ञ्चस्य णः। सत्तरह सप्तदश। उपरि लोप इत्यादिना पलोपः। अट्ठारह अष्टादश। ष्टस्य ठ इति ठत्वम्। ष्णान्तां
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy