________________
170
प्राकृत व्याकरणम् “शेषादेशयोद्वित्वमनादौ” (प्रा. ३.५०) इत्यनेन सूत्रेण “त्” कारस्य द्वित्वे, “पलित्त" इति जाते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य 'ओत्वे', “पलित्तो" रूपं सिद्धम्।
कदम्बः > कलम्बो ‘कदम्ब' इति स्थिते “प्रदीप्तकदम्वदोहदेषु दो लः” (प्रा. २. १२) इत्यनेन सूत्रेण 'द्' कारस्य स्थाने 'ल' कारे “अत ओत् सोः" (प्रा. ५.१) इत्यनेन अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य ओत्वे “कलम्बो' रूपं सिद्धम्।
दोहदः > दोहलो "दोहदः” इति स्थिते “प्रदीप्तकदम्बदोहदेषु दो लः” (प्रा. २. १२) इत्यनेन सूत्रेण 'द्' इत्यस्य 'ल' कारे दोहल इति जाते “अत
ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य ‘ओत्वे', “दोहलो" रूपं सिद्धम्। १३. गद्गदे रः सुबोधिनी
दस्पऽयुक्तस्य रः स्यात्। गग्गरो॥ १२॥ सञ्जीवनी
द इत्यनुवर्तते अयुक्तस्येति च। गद्गदशब्दे अयुक्तस्यं दस्य रेफादेशो भवति। गग्गरं। उपरि लोप इत्यादिना दलोपः। शेषादेशादिना गस्य द्वित्वम्। नपुंसके सोर्बिन्दुरिति बिन्दुः।।१२।। प्राकृतमञ्जरी
शब्दे गद्गद इत्यस्मिन् यो दकारोऽस्ति तस्य तु।
विधीयते हि रेफत्वं गद्गदो गग्गरो भवेत्॥१३॥ मनोरमा
गद्गदशब्दे दकारस्य रेफादेशो भवति। गग्गरो।