________________
अयुक्तविधिः
169 दोहलो।। ११॥ सञ्जीवनी
इ इत्यक्षरं षष्ठ्यन्तम्। एषु दकारस्य लत्वं स्यात्। पलितं। इदीतः पानीयादिषु इति इत्त्वम्। उपरि लोप इत्यादिना पलोपः। शेषस्य द्वित्वम्। णिजन्तेऽपि इष्यते। पलावि प्रदीपितम्। कलम्बो कदम्बः। दोहलो दोहदः। यावत् सान्तवद् विधिरिति द्वितीयस्याऽपि लत्वं न भवति। अलादावधिकारात्॥११॥ प्राकृतमञ्जरी
तस्य लत्वं प्रदीप्ते स्यात् कदम्बे दोहदेऽपि च।
तत्क्रमेण पलित्तं च कलम्बं दोहलं विदुः।।१२।। मनोरमा
एषु शब्देषु द कारस्य ‘ल कारो भवति। पलितं। कलंबो। दोहलो। अम्बिका
“अयुक्तस्यानादौ" (प्रा. २.१) इत्यतः ‘अनादौ' पदमनुवर्तते।
सूत्रार्थः
प्रदीप्त, कदम्ब, तथा दोहद आदि संस्कृत शब्दानाम् अनादौ विद्यमाने 'द्' कारस्य स्थाने 'ल' कारः भवति। यथा
प्रदीप्तः > पलित्तो 'प्रदीप्त' इति स्थिते "सर्वत्र लवराम्" (प्रा. ३.३) इत्यनेन सूत्रेण '' इत्यस्य लोपे “पदीप्त" इति स्थिते, “प्रदीप्तकदम्बदोहदेषु दो लः" (प्रा. २.१२) इत्यनेन सूत्रेण "द्" इत्यस्य 'ल' कारे, “पलीप्त" इति स्थिते “इदीतः पानीयादिषु" (प्रा. १.१८) इत्यनेन सूत्रेण आदि पदेन "पानीय" अतिरिक्त अन्य शब्दानाम् दीर्घ 'ई' कारस्य हस्व 'इ' कारे, “पलिप्त" इति जाते, (युक्तस्य) “उपरि लोपः कगडतदपषसाम्" (प्रा. ३.१) इत्यनेन सूत्रेण 'प्' इत्यस्य लापे, “पलित" इति जाते