________________
168
प्राकृत व्याकरणम् अन्तिम हल् (व्यंजन) 'म्' कारस्य स्थाने प्राकृते बिन्दुत्वे (अनुस्वारे) “गब्भिणं" रूपं सिद्धम्। ११. ऐरावते च सुबोधिनी
तस्य णो वा स्यात्। एरावणो एरावओ॥ १०॥ सञ्जीवनी ___ण इत्यनुवर्तते। ऐरावतशब्दे तकारस्य णकारादेशो भवति वा। एरावणो। पक्षे एरावओ। 'ऐत एत्' इति एत्वम्। पक्षे कगचादिना तलोपः॥ १०॥ मनोरमा
ऐरावत शब्दे तकारस्य णकारो भवति। एरावणो। अम्बिका
“अयुक्तस्यानादौ" (प्रा. २.१) इत्यतः “अनादौ" "ऋत्वादिषु तो दः” (प्रा. २.७) इत्यतः “तः" इति पदद्वयमनुवर्तते। सूत्रार्थः
ऐरावत इति संस्कृत शब्दस्य अनादौ विद्यमाने 'त्' कारस्यस्थाने प्राकृते ‘ण कारः भवति।
___ ऐरावतः > एरावणो “ऐरावत" इति स्थिते “ऐत एत्" (प्रा. १.३५) इत्यनेन सूत्रानुसारेण आदि 'ऐ' कारस्य 'ए' कारे “एरावत" इति स्थिते, "ऐरावते च" (प्रा. २.११) इत्यनेन सूत्रेण 'त्' कारस्य 'ण' कारे ‘एरावण' इति स्थिते "अत ओत् सोः' (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्ति एकवचने “सु” इत्यस्य “ओत्वे", "एरावणो" इति रूपं सिद्धम्। १२. प्रदीप्तकदम्बदोहदेषु दो लः सुबोधिनी
एषु दस्य लः स्यात्। पलित्तं णिजन्तेऽपीष्यते पलाविअम्। कलंबो