________________
अयुक्तविधिः
167
'त्' कारस्य 'ह' कारे, "अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य 'ओत्वे' भरहों रूपं सिद्धम् ।
१०. गर्भिते णः
सुबोधिनी
सञ्जीवनी
गर्भितशब्दे तकारस्य णकारादेशो भवति । गब्भिणों । सर्वत्र लवरामिति रलोपः । शेषस्य भस्य द्वित्वे वर्गे युजः पूर्व इति बः ॥
९॥
तस्य णः स्यात् । गब्भिणो ॥ ९ ॥
प्राकृतमञ्जरी
"6
मनोरमा
गर्भित शब्दे 'त्' कारस्य 'ण्' कारो भवति । गब्भिणं । अम्बिका
'अयुक्तस्यानादौ” (प्रा. २.१) इत्यतः “ अनादौ” पदमनुवर्त्तते ।
संस्कृतस्य " गर्भित” शब्दस्य " त्” कारस्यस्थाने प्राकृते " ण्” कारः भवति ।
सूत्रार्थः
शब्दे गर्भितमित्यस्मिन् णकारादेश इष्यते ।
तकारस्य ततो रूपं गर्भितस्य तु गम्भिणं ॥ १० ॥
गर्भितम् > गब्मिणं
"गर्भितम्" इति स्थिते "सवत्र लवराम्” (प्रा. ३. ३) इत्यनेन सूत्रेण 'र्' इत्यस्य लोपे “ शेषादेशयोर्द्वित्वमनादौ” (प्रा. ३.५० ) इत्यनेन सूत्रेण 'भ्' इत्यस्य द्वित्वे, “वर्गेषु युजः पूर्व:" (प्रा. ३.५२) इत्यनेन पुनः 'भू' कारस्य व् कारे, “गब्भित" इति स्थिते, “गर्भितेणः” (प्रा. २.२० ) इत्यनेन सूत्रेण 'त्' कारस्य 'ण्' कारे, "मो बिन्दुः” (प्रा. ४.१२ ) इत्यनेन सूत्रेण