________________
166
प्राकृत व्याकरणम् ,"कगचजतदपयवां प्रायो लोपः" (प्रा. २.२) इत्यनेन सूत्रेण 'क्' कारस्य लोपे “पड़ाआ" इति रूपं सिद्धम्। ९. वसतिभरतयोर्हः । सुबोधिनी
वसही भरहो॥ ८॥ सञ्जीवनी
एतयोः शब्दयोस्तकारस्य हत्वं स्यात्। वसही भरहो॥८॥ प्राकृतमञ्जरी
हत्वं वसतिशब्दे स्याद् भरते तस्य तद् यथा।
वसतिं वसहिं विद्याद् भरतं भरहं तथा॥ ९॥ मनोरमा
वसति-भरत शब्दयोः तकारस्य हकारो भवति। वसही। भरहो। अम्बिका ___“अयुक्तस्यानादौ” (प्रा. २.१) इत्यतः “अनादौ" तथा "ऋत्वादिषु तो दः” (प्रा. २.७) इत्यस्मात् 'तः' पदद्वयमनुवर्तते। सूत्रार्थः ___'वसति' तथा 'भरत' शब्दयोः अनादौ विद्यमाने 'त्' कारस्य स्थाने प्राकृते 'ह' कारः भवति।
वसतिः > वसही 'वसतिः' इति स्थिते “वसतिभरतयोर्हः" (प्रा. २.९) इत्यनेन सूत्रेण 'त्' कारस्य 'ह' कारे, “सुभिस्सुप्सु दीर्घः” (प्रा. ५.१८) इत्यनेन सूत्रेण "सु” इति विभक्ति प्रत्यये मूल इ कारस्य दीर्घत्वे "सु" लोपे “वसही" इति रूपं सिद्धम्। ।
भरतः > भरहो 'भरतः' इति स्थिते “वसतिभरतयोर्हः” (प्रा. २.९) इत्यनेन सूत्रेण