SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ अयुक्तविधिः ___165 _ 'तस्य डत्वं हरीतक्यां प्राभृते मृतके तथा'। हरडई हरीतकी। डस्य (१) वशादीकारस्य अत्त्वम्। पाहुडं प्राभृतम्। सर्वत्र लवरामिति रलोपः। खघथादिना हत्वं भस्य। उदृत्वादिष्वित्युत्त्वम्। मडओ मृतकः। ऋतोऽदित्यत्त्वम्॥ ७॥ प्राकृतमञ्जरी प्रतिवेतसयोस्तस्य पताकायाञ्च डो भवेत्। पडिक्छन्दो वेडिसो च पडाआ चेति तत्त्रयम्॥ ८॥ मनोरमा __एषु शब्देषु 'त्' कारस्य डकारो भवति। लोपापवादः। पड़िसरो। वेड़िसो। पड़ाआ। अम्बिका ___ “अयुक्तस्यानादौ" (प्रा. २.१) इति सूत्रात् “अनादौ” तथा “ऋत्वादिषु तो दः" (प्रा. २.७) इत्यतः “तः" पदद्वयमनुवर्तते। सूत्रार्थः प्रतिसर वेतस तथा पताका आदि संस्कृत शब्दानाम् अनादौ विद्यमाने “त्" कारस्य स्थाने प्राकृते 'ड्' कारः भवति। प्रतिसरः > पड़िसरो 'प्रतिसर' इति स्थिते “प्रतिसरवेतसपताकासु डः" (प्रा. २.८) इति सूत्रेण 'त्' कारस्य 'ड्' कारे “पड़िसर" इति जाते “अत ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य ‘ओत्वे', “पड़िसरो" इति रूपं सिद्धम्। वेतस > वेड़िसो अस्य प्रक्रियां प्रथमपरिच्छेदे “इदीषत्पक्वस्वप्नवेतसव्यजनमृदाङ्गाऽङ्गारेषु" (च) (प्रा. १.३) सूत्रप्रसङ्गे द्रष्टव्यम्। पताका > पड़ाआ 'पताका' इति स्थिते “प्रतिसरवेतसपताकासु डः” (प्रा. २.८) इत्यनेन सूत्रेण 'त्' कारस्य ‘ड्' कारे, “पड़ाका" इति स्थिते
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy