________________
164
सिद्धम् ।
प्राकृत व्याकरणम्
सम्प्रति > संपदि
" सम्प्रति" इति स्थिते "मो बिन्दुः " (प्रा. ४. १२) इत्यनेन 'म्' इत्यस्य बिन्दुत्वे (अनुस्वारे), "संप्रति" इति जाते “सर्वत्र लवराम्” (प्रा. ३.३) इत्यनेन सूत्रेण 'र्' कारस्य लोपे, “संपति" इति प्राप्ते "ऋत्वादिषु तोदः” (प्रा. २.७) इत्यनेन सूत्रेण 'त्' कारस्य 'द्' कारे " संपदि" रूपं सिद्धम् ।
प्रतिपत्ति > पड़िवद्दी
" प्रतिपत्ति" इति स्थिते " सर्वत्र लवराम्" (प्रा. ३.३) इत्यनेन सूत्रेण 'र्' कारस्य लोपे “प्रतिसरवेतसपताकासु डः " (प्रा. २८) इत्यनेन सूत्रेण 'त्' कारस्य 'ड्' कारे, “पो वः” (प्रा. २.१५) इत्यनेन सूत्रेण ‘प्’ कारस्य ‘व्’ कारादेशे, "ऋत्वादिषु तो दः” (प्रा. २.७) इत्यनेन सूत्रेण 'त्' कारस्य 'द्' कारे, “सुभिस्सुप्सु दीर्घः” (प्रा. ५.१८) इत्यनेन सूत्रेण प्रथमा विभक्ति एकवचने "सु" इत्यस्योपस्थितौ ह्रस्व 'इ' कारस्य दीर्घ 'ई' कारे 'पड़िवदी' रूपं सिद्धम् ।
८. प्रतिसरवेतसपताकासु डः
सुबोधिनी
एषु डः स्यात् तस्य । पडिवअणं प्रतिवचनम्। वेडिसो।
पडाआ । ' प्रतिशब्दे तकारस्य रेफलोपावपि क्वचित्' । परिट्ठिअं प्रतिष्ठितम् परिट्ठानं प्रतिष्ठानम् । पइण्णा । प्रतिज्ञा । 'तस्य डत्वं हरीतक्यां प्राभृते मृतके तथा । हरडई पाहुडं मडओ ॥ ७ ॥
सञ्जीवनी
त इत्यनुवर्तते ऐरावते वेति यावत् । एषु शब्देषु तकारस्य डत्वं स्यात् । पडिहअं प्रतिहतं । पडिवअणं प्रतिवचनम् । कगचादिना चलोपः । ' प्रतिशब्दे तकारस्य रेफलोपावपि क्वचित्' । परिट्ठिअं प्रतिष्ठितम्। उपरि लोप इत्यादिना षलोपः । पूर्ववदन्यत् । एवं पइण्णा प्रतिज्ञा । म्नज्ञपञ्चाशत्पञ्चदशसु ण इति ज्ञ इंत्यस्य णः । तस्य शेषादेशादिना द्वित्वम् । वेडिसो वेतसः । इदीषदित्यादिना इत्त्वम् । पडाआ पताका ।