________________
अयुक्तविधिः
163 "कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण "" कारस्य लोपे, “आइति" इति स्थिते "ऋत्वादिषु तो दः” (प्रा. २. ७) इत्यनेन सूत्रेण 'त्' कारस्य 'द्' कारे, "आइदि” इति जाते "सुभिस्सुप्सु दीर्घः' (प्रा. ५.१८) इत्यनेन हस्व 'इ' कारस्य दीर्घ 'ई' कारे “आइदी" रूपं सिद्धम्।
हतः > हदो ___ “हत" इति स्थिते "ऋत्वादिषु तो दः" (प्रा. २.७) इत्यनेन सूत्रेण 'त्' कारस्य 'द्' कारे, “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अंदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य ‘ओत्वे', "हदो" रूपं प्राप्तम्।
संयतः > संजदो 'संयत' इति स्थिते “आदेर्यो जः” (प्रा. २.३१) (अयुक्तस्यानादौ, प्रा. २.१ इत्यतः “अनादौ' पदस्य अनुवृत्तित्वात्) इत्यनेन सूत्रेण अनादि 'य' कारस्य ‘ज्' कारे “संजत" इति जाते "ऋत्वादिषु तो दः" (प्रा. २.७) इत्यनेन सूत्रेण 'त्' कारस्य 'द्' कारे, “संजद" इति प्राप्ते “अत ओत् सोः” (प्रा. ५.१८) इत्यनेन सूत्रेण अदन्तस्य प्रथमा-विभक्ति एकवचने “सु" इत्यस्य ‘ओत्वे', 'संजदो' रूपं सिद्धम्।
विवृतम् > विउदं 'विवृतम्' इति स्थिते "उदृत्वादिषु" (प्रा. १.२९) इत्यनेन सूत्रेण 'ऋ' कारस्य 'उ' कारे “विवुत" इति जाते “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'व्' कारस्य लोपे, “विउत" इति प्राप्ते "ऋत्वादिषु तो दः” (प्रा. २.७) इत्यनेन सूत्रेण 'त्' कारस्य 'द्' कारे, “विउद" इति स्थिते “सोर्बिन्दुनपुंसके" (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसक शब्दस्य “सु" इत्यस्य बिन्दुत्वे (अनुस्वारे) “विउदं" रूपं सिद्धम्।
संयातः > संयादो 'संयात' इति स्थिते “ऋत्वादिषु तोदः'' (प्रा. २.७) इत्यनेन 'त्' कारस्य 'द्' कारे, “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य “ओत्वे" संयादो इति रूपं