________________
162
प्राकृत व्याकरणम् लवराम्” (प्रा. ३.३) इत्यनेन सूत्रेण 'र' इत्यस्य लोपे, “णिवुति" इति प्राप्ते "शेषादेशयोद्वित्वमनादौ” (प्रा. ३.५०) इत्यनेन 'व्' कारस्य द्वित्वे "ऋत्वादिषु तो दः” (प्रा. २.७) इति सूत्रेण “त्" कारस्य 'द्' कारे "सुभिस्सुप्सु दीर्घः” (प्रा. ५.१८) इत्यनेन 'इ' कारस्य 'ई' कारे णिन्वुदी इति रूपं सिद्धम्।।
आवृतिः > आवुदी "आवृति" इति स्थिते “उदृत्वादिषु" (प्रा. १.२९) इति सूत्रेण सूत्रस्य आदिपदेन 'आवृति' शब्दस्य 'ऋ' (ऋत्) कारस्य स्थाने 'उ' कारादेशे ‘आवुति' इति जाते "ऋत्वादिषु तो दः” (प्रा. २.७) इत्यनेन सूत्रेण 'त्' कारस्य 'द्' कारे, “सुभिस्सुप्सु दीर्घः” (प्रा. ५.१८) इत्यनेन सूत्रेण 'इ' कारस्य स्थाने दीर्घ 'ई' कारे "आवुदी" इति रूपं सिद्धम्।
संवृतिः > संवुदी “संवृति" इति स्थिते “उदृत्वादिषु" (प्रा. १.२९) इति सूत्रेण सूत्रस्य आदि पदेन संवृति शब्दस्य "ऋ" (ऋत्) कारस्य स्थाने “उ” कारादेशे "संतुति" इति जाते, “ऋत्वादिषु तो दः" (प्रा. २.७) इत्यनेन सूत्रेण 'त्' कारस्य "द्" कारे "सुभिस्सुप्सु दीर्घः” (प्रा. ५.१८) इत्यनेन सूत्रेण हस्व “इ” कारस्य दीर्घ 'ई' कारे संवुदी इति रूपं सिद्धम्।
सुकृतिः > सुइदी "सुकृति" इति स्थिते “इदृष्यादिषु” (प्रा. १.२८) इति सूत्रेण 'ऋ' (ऋत्) कारस्ग 'इ' (इत्) कारे 'सुकिति' इति स्थिते "कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'क्' कारस्य लोपे “सुइति" इति जाते "ऋत्वादिषु तो दः” (प्रा. २.७) इत्यनेन सूत्रेण 'त्' कारस्य 'द्' कारे सुइदि इति प्राप्ते सुभिस्सुप्सु दीर्घः" (प्रा. ५.१८) इत्यनेन ह्रस्व 'इ' कारस्य 'ई' कारे, “सुइदी' इति रूपं सिद्धम्।
आकृतिः > आइदी "आकृति" इति स्थिते “इदृष्यादिषु” (प्रा. १.२८) इति सूत्रेण 'ऋ' (ऋत्) कारस्य 'इ' (इत्) कारे “आकिति'' इति जाते