________________
अयुक्तविधिः
161 अम्बिका
प्रथमसूत्र “अयुक्तस्यानादौ' (प्रा. २.१) इत्यतः “अनादौ" पदमनुवर्तते। सूत्रार्थः
"ऋतु" आदि संस्कृत शब्दानाम् अनादौ विद्यमाने “त्" कारस्य स्थाने प्राकृते “द्" कारः भवति।
रजत, आगत, निर्वृति, आवृति, संवृति आदि शब्दानाम् ग्रहणार्थम् सूत्रे “आदि" शब्द निर्दिश्यते। अयं नियमः खलु शौरसेनी तथा मागधी प्राकृतं निमित्तम्। म. म. मथुराप्रसाद दीक्षितैः “प्राकृतप्रकाश"
स्य आधुनिक शैल्याम् लिखित संस्कृत व्याख्या चन्द्रिकायामप्युक्तम् -- अयं दकारादेशः प्रायेण शौरसेनी - मागध्योद्रष्टव्यः। महाराष्ट्रायां त कारलोप एव॥७॥
ऋतुः > उदू अस्य प्रक्रियां तु प्रथम परिच्छेदे “उदृत्वादिषु” (प्रा. १.२९) सूत्र प्रसङ्गे द्रष्टव्यं।
रजतम् > रअदं अस्य प्रक्रियां तु अस्मिन् परिच्छेदे “कगचजतदपयवां प्रायो लोपः" (प्रा. २.२) इति सूत्रस्य ‘ज लोप' प्रसङ्गे द्रष्टव्यम्।
आगतः > आअदो ‘आगत' इति स्थिते “कगचजतदपयवां प्रायो लोपः” (प्रा. २. २) इत्यनेन सूत्रेण 'ग्' कारस्य लोपे “आअत" इति जाते "ऋत्वादिषु तो दः” (प्रा. २.७) इति सूत्रेण 'त्' कारस्य 'द्' कारे, “आअद" इति जाते, अत ओत् सोः (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु” इत्यस्य “ओत्वे", "आअदो” रूपं सिद्धम्।
निर्वृतिः > णिव्वुदी “निर्वृत्तिः” इति स्थिते “नोणः सर्वत्र” (प्रा. २.४२) इत्यनेन सूत्रेण 'न्' कारस्य 'ण' कारे "णिर्वृत्तिः” इति जाते "उदृत्वादिषु" (प्राः १.२९) इति सूत्रेण सूत्रस्य आदि पदेन “निर्वृत्ति" शब्दस्य 'ऋ' (ऋत्) कारस्य स्थाने 'उ' कारादेशे “णित्ति" इति जाते “सर्वत्र