________________
160
प्राकृत व्याकरणम् पीदी। अयं दकारादेशः प्रायेण सौरसेनीमागध्योर्द्रष्टव्यः। महाराष्ट्रयां तकारलोप एव॥६॥ सञ्जीवनी । ___ त इत्यक्षरं षष्ठ्यन्तम्। ऋतुतुल्येषु शब्देषु तकारस्य दकारादेशो भवति। उदू ऋतुः। उदृत्वादिषु इत ऋकारस्य उत्त्वम्। सुभिस्सुप्सु दीर्घ इति दीर्घः। आआदो आयातः। सुदं श्रुतम्। सर्वत्र लवरामिति रलोपः। शषो सः इति शस्य सः। नपुंसके सोर्बिन्दुरिति बिन्दुः। खादी ख्यातिः। अधो मनयामिति यलोपः। पूर्ववद् दीर्घः। अन्त्यस्य हल इति सलोपः। तदो ततः। सम्पदं साम्प्रतं। अदातो यथादिषु वेत्यत्त्वम्। सर्वत्र लवरामिति रलोपः। 'बिन्द्वादीदूत्परस्येह द्वित्वं शेषस्य नेष्यते' इति पस्य द्वित्वं न भवति। णिव्वुदो निर्वृतः। उदृत्वादिषु ऋकारस्य उत्त्वम्। रलोपे कृते शेषादेशादिना वस्य द्वित्वम्। नो णः इति णः। पदारिदो प्रतारितः। रदी पीदी रतिप्रीत्योः।
ऋत्वागतश्रुतिख्यातिततः साम्प्रतनिर्वृताः। . प्रतारितरतिप्रीत्य ऋत्वाद्या एवमादयः॥
अयं दकारादेशः प्रायेण सौरसेनीमागध्योर्द्रष्टव्यः। इह तु कगचादिना तलोपः॥६॥ प्राकृतमञ्जरी
ऋत्वादिषु पदेषु स्यात्तकारस्य दकारता। " भवेद् ऋतुरुदू रत्नं रदणं च हतं हदं॥ . ऋतु संयतरजतागतहतास्सुदुस्सुद्भ्य उत्तरञ्च कृतम्।
संव्यादिभ्यञ्च कृतं प्रतिपत्तीरत्नमृत्वादिः॥ ७॥ मनोरमा
ऋतु इत्येवमादिषु त कारस्य दकारो भवति। उदू। रअदं। आअदो। आत्रुटी। णिव्वुदी। संवुदी। सुइदी। आइदी। हदो। संजदो। विउदं। संयादो। संपदि। पड़िवद्दी।। ऋतु - रजत - आगत - निर्वत्ति - आवृत्ति - संवृति - सुकृति - आकृति - हत - संयत - विवृत - संयात - सम्प्रति - प्रतिपत्तयः।