________________
159
अयुक्तविधिः सञ्जीवनी
क इत्यनुवर्तते। चन्द्रिकाशब्दे कस्य मत्वं भवति। चंदिमा। द्रे रो वेति रलोपः॥५॥ प्राक्तमञ्जरी
चन्द्रिकायां ककारस्य मकारादेश उच्यते।
तेनेह चन्द्रिकाशब्दे रूपं सिध्यति चन्दिमा॥६॥ मनोरमा
चन्द्रिकाशब्दे ककारस्य मकारो भवति। चन्दिमा। अम्बिका
अध्यायस्य प्रथमसूत्रं “अयुक्तस्यानादौ" (प्रा. २.१) इत्यतः अनादौ पदमनुवर्तते। सूत्रार्थः
_ "चन्द्रिका" इति संस्कृत शब्दस्य 'क्' कारस्य स्थाने प्राकृते 'म्' कारः भवति। यथा
चन्द्रिका > चन्दिमा चन्द्रिका इति स्थिते “चन्द्रिकायां मः” (प्रा. २.६) इत्यनेन सूत्रेण 'क्' कारस्य 'म्' कारे, चन्द्रिमा इति जाते “सर्वत्र लवराम्” (प्रा. ३.३) इत्यनेन सूत्रेण संयुक्त व्यंजन 'र' कारस्य लोपे “चन्दिमा" इति रूपं सिद्धम्। ७. ऋत्वादिषु तो दः सुबोधिनी
एषु तकारस्य दकारः स्यात्। ऋत्वागतश्रुतख्यातिततः साम्प्रतनिर्वृताः। प्रतारितरतिप्रीत्य ऋत्वाद्या एवमादयः। उदू आअदो सुदं खादी तदो सम्पदः णिव्वुदो पदारिदो रीदि