SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ 158 प्राकृत व्याकरणम् सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने "सु" इत्यस्य “ओत्वे', "णिहसो" इति रूपं सिद्धम्। चिकुरः > चिहुरो . “चिकुरः” इति स्थिते “स्फटिकनिकषचिकुरेषु कस्य हः” (प्रा. २.४) इति सुत्रेण "क" कारस्य 'ह' कारे “चिहर” इति जाते “अत ओत् सोः" (प्रा. ५.१) इति सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने सु इत्यस्य ओत्वे, “चिहुरो" पदम् सिद्धम्। ५. शीकरे भः - मनोरमा ___ शीकर शब्दे क् कारस्य ‘भ्' कारो भवति। सीभरो। अम्बिका अध्यायस्य प्रथम सूत्रं “अयुक्तस्यानादौ" (प्रा. २.५) इत्यतः “अनादौ” इत्यस्य अनुवृत्तिर्भवति। । सूत्रार्थः संस्कृत "शीकर" शब्दस्य “क्” कारस्य स्थाने प्राकृते “भ्" कारः भवति। यथा . शीकरः > सीभरो "शीकरः” इति स्थिते “शषोः सः” (प्रा. २.४३) इत्यनेन सूत्रेण 'श' कारस्य 'स्' कारे, “सीकर" इति स्थिते "शीकरे भः” (प्रा. २.५) इत्यनेन सूत्रेण 'क्' कारस्य 'भ' कारे, “सीभर" इति जाते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य ओत्वे “सीभरो” इति रूपं सिद्धम्। सूत्रस्यास्य सुबोधिनी सञ्जीवनी प्राकृतमञ्जरीटीकाः नोपलभ्यते। ६. चन्द्रिकायां मः सुबोधिनी ककारस्य मकारः स्यात्। चंदिमा॥ ५॥
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy