________________
अयुक्तविधिः
157 हत्वं विधीयते कस्य क एव प्रकृतौ यतः॥ स्फटिकं फलिहं प्राहुर्निकषं णिहसं तथा।
चिकुरं चिहुरं भूयः शीकरञ्चापि सीहरं॥ ४॥ मनोरमा ___अनादाविति वर्तते। एषु कस्य हकारो भवति। लोपापवादः। फलिहो। णिहसो। चिहुरो॥ अम्बिका
सूत्रमिदं, “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इति लोप सूत्रस्य अपवादः। “अयुक्तस्यानादौ" (प्रा. २.१) इत्यतः ‘अनादौ' पदमनुवर्तते। . सूत्रार्थः
स्फटिक, निकष तथा चिकुर आदि संस्कृत शब्दानाम् अनादि 'क्' कारस्य स्थाने प्राकृते 'ह' कारः भवति।
स्फटिकः > फलिहो . ‘स्फटिक' इति स्थिते “स्पस्य सर्वत्र स्थितस्य' (प्रा. ३.३६) इति सूत्रेण ‘स्प' इत्यस्य ‘फ' इत्येवमादेशे ‘फटिक' इति जाते “स्फटिके लः” (प्रा. २.२२) इति सूत्रेण 'ट्' कारस्य 'ल' कारे ‘फलिक' इति जाते “स्फटिकनिकष चिकुरेषु कस्य हः” (प्रा. २.४) इति सूत्रेण 'क्' कारस्य ‘ह्' कारे ‘फलिह' इति स्थिते “अत ओत् सोः' (प्रा. ५.१) इति सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु” इत्यस्य ओत्वे, “फलिहो' रूपं सिद्धम्।
निकषः > णिहसो निकषः इति स्थिते “नोणः सर्वत्र' (प्रा. २.४२) इत्यनेन सूत्रेण "न्" कारस्य “ण” कारे “णिकष' इति स्थिते “स्फटिकनिकषचिकुरेषु कस्य हः” (प्रा. २.४) इति सूत्रेण “क्' कारस्य “ह' कारे, “णिहष" इति जाते “शषः सः” (प्रा. २.४३) इत्यनेन सूत्रेण "" कारस्य स् कारे “णिहस” इति जाते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन