________________
156
प्राकृत व्याकरणम् मनोरमा
यमुनाशब्दे मकारस्य लोपो भवति। जउणा। अम्बिका
अयुक्तस्यानादौ (प्रा. २.१) इत्यतः अयुक्तस्य तथा अनादौ पदद्वयमनुवर्तते। सूत्रार्थः - यमुना शब्दे अनादौ विद्यमाने अंसयुक्त 'म' वर्णस्य प्राकृते लोपर्भवति। यथा
यमुना > जउणा “यमुना” इति स्थिते “यमुनायां मस्य” (प्रा. २.३) इति सूत्रेण 'म्' कारस्य लोपे ‘यउना' इति स्थिते “आदेर्यो जः” (प्रा. २.३२) इति सूत्रानुसारेण आदिभूतस्य 'य' कारस्य ‘ज्' कारे “जउना" इति स्थिते “नोणः सर्वत्र" (प्रा. २.४२) इति सूत्रेण 'न्' कारस्य ‘ण्' कारे “जउणा" इति रूपं सिद्धम्। । ४. स्फटिकनिकषचिकुरेषु कस्य हः सुबोधिनी
एषु ककारस्य हकारः स्यात्। फलिहो निहसो चिहुरो सीहरो॥ सञ्जीवनी
क इत्यक्षरं षष्ठयन्तम्। एषु चतुर्षु शब्देषु कस्य हत्वं स्यात्। पूर्वेण लोपः प्राप्तः। उत्तरसूत्रेषु च आदेशस्याकार उच्चारणार्थः। एवमादिपरिच्छेदपरिसमाप्तेः। फलिहो स्फटिकः। उपरि लोप इति सलोपः। स्फटिके ल इति टस्य लः। णिहसो निकषः। चिहुरो चिकुरः। सीहरो शीकरः॥ ४॥ प्राकृतमञ्जरी
स्फटिके निकषे तद्वच्चिकुरे शीकरेऽपि च।
।
माना