SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ (xvi) यथा-- निःसङ्ग > णीसङ्गो (निः > णी) । ग्रन्थस्यान्तिमभागे परिशिष्टानि निर्दिश्यन्ते। परिशिष्टे कतिपयानि प्राकृतशब्दरूपाणि धातुरूपाणि, प्राकृतधात्वादेशः, प्राकृतप्रकाशस्य प्रथम-द्वितीयाध्याययोः भामहानुमोदित-सूत्राणामकारादिक्रमः तथा च 'मनोरमा', 'अम्बिका' व्याख्ययोः समागत प्राकृतशब्दानां प्रयोगस्य सूची संस्कृतशब्देनसह अकारादिक्रमेण. प्रदत्ता। प्रथमसंस्करण सर्वथा सर्वोपयोगी कर्तुं प्रयासः कृता। “प्राकृतप्रकाश" स्य वाराणसेय संस्कृत विश्वविद्यालय संस्करणस्य भूमिका (आ. बलदेव उपाध्याय) चौखम्बा विद्याभवन वाराणसेय संस्करण पं. रामाधिन चतुर्वेदी महोदयस्य “संस्कृतभाषाविज्ञानम्", साहित्यभण्डार, मेरठ द्वारा प्रकाशितं डॉ. श्रीकान्त पाण्डेयेन रचितस्य ‘प्राकृतप्रकाशस्य', "दीप्ति' व्याख्या, “प्राकृत भाषाओ का व्याकरण" (प्राकृत भाषायाः महानाधुनिको विद्वान् रिचर्ड पिशल महोदयस्य विश्व प्रसिद्धः जर्मन ग्रन्थः “ग्रामाटिक डेस् प्राकृत स्प्रेखन" इत्यस्य डा. हेमचन्द्र जोशी कृत हिन्दी रूपान्तर) ग्रन्थस्य भूयानुपयोगः कृतः। अत्र च निवन्धनिष्पत्तौ येषां मुनीनां वैयाकरणानां ग्रन्थानाम्, व्याकरणविदुषां च साक्षात् परम्परया साहाय्यं समुपलब्धं तदर्थे तेषां कृतज्ञाऽहम्। शब्दसूची (परिशिष्टं ५) संगठने व्याकरण सम्मानस्य छात्रः श्री शिवप्रसाद नन्दस्य साहाय्यार्थे कृतज्ञाऽहम्। ... ब्रह्मपुर पौर. पुस्तकालयस्य श्री तारिणी चरण सावतः, दिल्ली विश्वविद्यालयस्य पुस्तकालय विज्ञान (Library Science) विभागस्य शोधछात्रः डॉ. अरुण कुमारः इति एतयोः वन्ध्वोसाहाय्यार्थ तथा प्रेरणार्थञ्च कृतज्ञाऽहम्। शिमला विश्वविद्यालयस्य (Simla University) संस्कृत विभागाध्यक्षाणां डॉ. राजेन्द्र मिश्र तथा च केन्द्रिय शिक्षा मन्त्रालये सहायक शिक्षा सलाहकारः (संस्कृत) डॉ. दयानन्द मिश्र महाभागानाम् उत्साह प्रेरणार्थे चिरकृतज्ञाऽहम्।
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy