________________
(xv)
समस्तसूत्रान्तर्गतोदाहरणानि ससूत्रं साधितानि । सूत्रस्योदाहरणानां साधनादनन्तरम् उपयुक्तस्थले समन्वयोऽपि समीक्षितो यथावसरम् । कतिपयस्थाने उदाहरणानां पुनरुक्तित्वात् साधनप्रक्रिया सकृदेव निर्दिश्यते मुख्यसूत्रप्रसङ्गे ।
प्राकृतव्याकरणे विषयोऽयं नवीनः । प्राकृतशब्दस्यार्थः, प्राकृतस्य प्रशस्तिः, प्राकृतस्य प्राचीनाचार्याः, प्राकृतभाषासमूहाः तथैव आसु पारस्परिकाप्रभेदाः, प्राकृतव्याकरणस्य परम्पराः, प्राकृतप्रकाशस्य वैशिष्टयम् चेति विषया ग्रन्थस्य पूर्वार्धे छात्राणां सुबोधनार्थं व्याख्याकृताः । उत्तरार्धे, प्राकृतप्रकाशस्य भामहं विरचित मनोरमाव्याख्यायां निर्दिष्टानाम् उदाहरणानां ससूत्रं साधनं निर्दिश्यते ।
पूर्वसूत्रादनुवृत्तं - सूत्राणाम् संकेतम्, “अम्बिका” व्याख्यायाम् सुस्पष्टं क्रियते । सूत्रस्य निर्दिष्टार्थः “सूत्रार्थः' प्रसङ्गे क्रियते ।
प्राकृत उदाहरणात् पूर्वं तत्समसंस्कृतशब्दं निर्दिश्य प्राकृताभिमूखं तीरचिह्नं (> ) प्रयुज्यते ।
प्रायतः सूत्रार्थे भामहाभिमतं वरीवर्त्तते। आवश्यकस्थले स्वमतमभिनिर्दिष्टम्। भामहेन मान्यः, स्वीकृतो वा सूत्राणाम् क्रम निर्देशोः ग्रन्थे सूचितः । भामहेतर व्याख्याकारैः निर्दिष्टं सूत्रे द्वे वर्त्तते। तस्मात्कारणात्, परिशिष्टे स्वतन्त्ररूपेण न निर्दिष्टम् । सदानन्दाचार्याभ्याम् “ऊदूत उपसर्गे विसर्जनीयेन" प्रथमाध्यायस्य “अष्टादश" सूत्ररूपेण स्वीकृतम्। सूत्रस्यार्थस्तावत् संस्कृत उपसर्गादनन्तरमागतविसर्गेण सह उपसर्गस्य ह्रस्व उ (उत्) कारस्यस्थाने प्राकृते "ऊ" कारः भवति व्यञ्जनवर्णस्योपस्थितौ ।
वसन्तराज
यथा
-
दुःशिक्षितम् > दूसिक्खिअं (दुः > दू)
अन्यैः व्याख्याकारैः अस्मात् सूत्रादनन्तरम् “ईदितः” इति स्वीक्रियते। अर्थात् - संस्कृतउपसर्गादनन्तरं विसर्गेण सह उपसर्गस्य आदि "इ" (इत्) कारस्य स्थाने प्राकृते ई ( ईत्) भवति व्यञ्जनवर्णस्योपस्थितौ ।