SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ (xiv) व्यवहारे च ततद्भाषाणा तत्तद्देशेषु वर्णविशेषप्राधान्यमालोच्यत्वेवमुक्तं तेन " गङ्गासागरमध्ये तु ये देशाः संप्रकीर्तिताः । एकारबहुलां तेषु भाषां तज्ज्ञः प्रयोजनात् ॥ विन्ध्यसागर मध्ये तु ये देशाः श्रुतिमागताः । नकारबहुलां तेषु भाषां तज्ज्ञः प्रयोजयेत् ॥ सुराष्ट्रावन्तिदेशेषु वेत्रवत्युत्तरेषु च । ये देशास्तेषु कुर्वीत चकारखहुलामिह । हिमवत् सिन्धुसौवीरान् ये जनाः समुपाश्रिताः । उकारबहुलां तज्ज्ञस्तेषु भाषां प्रयोजयेत्” ॥ इत्यादि । (नाट्य शा. ५७-६०) अथ प्रकृतिसिद्धादुच्चारणदोषात् तत्रोभयत्रापि अपभ्रंशा आपतन्तिस्म। तदेतदुच्यते - महाभाष्योद्धृतश्रुतिभिः "तेऽसुरा हेलयो हेलय इति कुर्वन्तः परा बभूवुस्तस्मादब्राह्मणेन न म्लेच्छितवै नापभाषितवै, म्लेच्छहवा एष यदपशब्दः " । इति । (व्या. महा. पस्पशा.) विसर्गस्योकारत्वं च पाणिनिः उपाधि विशेष एवानुशास्ति, परं संस्कृत शब्दानामन्तिमो बिसर्ग स्तत्तदुपाधिविरहेऽपि प्राकृत शब्देषु ओकाररूपतां गतो बाहुल्यनोपलभ्यते । यथा दण्डः देवः - देवो, तमः'- तमो, गर्तः - गढ्ढो, चन्द्रः - चन्दो, डंडो, चैत्रः चइत्तो, जीवः जीओ, पारओं (पारा), वृश्चिकः - विच्छुओ, तैलिकः - तैल्लिओ, घोटकः - घोड़ओ, (घोड़ा) इति । पारदः - - सञ्जीवनी - सुबोधिनी - प्राकृतमञ्जरी - मनोरमा एताः टिकाः अवलम्व्या व्याकरणनियमेन प्राकृतशब्दानां ससूत्रं साधनमिति अम्बिक़ानान्मा नूतनाव्याख्यया अत्यभिनवोऽयं ग्रन्थः प्रस्तुयते । प्रस्तुतेऽस्मिन् ग्रन्थे प्राकृतप्रकाशस्य प्रथम, द्वितीय अध्याययोः
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy