________________
(xiii) गकारोपर्यागच्छति, उष्मयोगे ग कारो घकारत्वं गतः, ऋकारघटितो रेफश्च अज्भक्तेरनन्तरं गतस्सन् अकारेण संयुज्यते, तदा “घर” इति रूपं भवन्ति। तथा “प्रस्तर" शब्दे सकारस्योष्मणस्तकारोत्तरं गतस्य थभावे "पत्थर" इति भवति। भवति पद च भंकार घटकस्योष्मणः पृथग्भावात् वकारस्य च लोपात् “होदि", "होत" "होता" इत्यादि रूपाणि गच्छन्ति। कुम्भकार शब्दे मकारघटकस्योष्मणः पृथग्भावात् ककारस्य च लोपात् “कुम्हार" इति रूपं प्राप्नोतीत्यादि बहुतरमूष्मणो विपर्यायो दृश्यते।
. रेफस्तु संस्कृतात् प्राकृतनिर्माणे प्रायेणा स्तमेव गच्छति – आर्य - अज्ज, पुत्र-पुत्त, मूर्ति - मूत्ती, धर्म - धम्म, कर्म - कम्म, चर्म - चम्म, कर्ण - कण्ण, पर्ण - पण्ण, सर्प - सप्प, दर्दूर - ददुर इत्यादौ। ..
मूर्धन्यश्च षकारः प्रायेण खकाररूपतां याति पुष्कर - पोक्खर, पोखर, रक्ष - रक्ख, रख, बुभुक्षा - बुहुक्खा, भूख, प्रत्यक्ष - पच्चक्ख, भिक्षा - भिक्खा, भीख कुक्षि - कुक्खि, कोख, सध्क्ष - सारिक्ख, इक्षु - इक्खु, ईख, ऊख, वृक्ष - रुक्ख, रुख, इत्याद्या बहुशो द्रष्टव्याः। ___ संस्कृते बहुशः श्रुयमाणानि संयुक्ताक्षराणि कोमलप्रकृतिषु भाषासु विलुप्यन्त एव, स्वापेक्षया पूर्व च वर्ण दी(कुर्वन्ति - यथा
अद्य - अज्ज, आज, कार्य - कज्ज, काज, अष्ट - आठ, सप्त - सात, अक्षि - आँख, अग्नि - आग, कृष्ण - कान्ह, कर्ण - कान, पार्श्व - पास, चन्द्र - चन्द्र, चांद, पत्र - पत, पात, चक्र - चक्क, चक्की, नग्न - नग्ग, नंगा, नागा, मौक्तिक - मोत्तिअ, मोती, सपत्नी - सवत्ती, सौत, इत्यादि। प्राकृतस्य भेदविषये परमाचार्येण भरतेन इदमुक्तं
मागध्यावन्तिजा प्राच्या शौरसेन्यर्धमागधी बाहिका दाक्षिणात्या च सप्त भाषाः प्रकीर्तिताः॥ इति।
(नाट्य शा., १७.४८) .