________________
(xii) वर्णा अपि केचन तथास्वभाव ये विपर्यासे साहाय्यं ददति। विपरिणामो विपर्यास एव वा तेषां स्वभावः, रेफ ऊष्माणो वर्णाश्च तेषु मुख्याः। श्रुत्याप्यूष्मणां भाषाजनकत्वे प्राधान्यमुक्तम्
"अकार एव सर्वा वाक् सैषा स्पर्शीष्मभिर्व्यज्यमाना बह्वी नानारूपा भवतीति"। (वै. म. स्फो. निरूपणम्) भगवान् पाणिनिरपि उष्मणां नानाप्रकृतित्वमाह
ओभावश्च विवृतिश्च शषसा रेफ एव च। जिह्वामूलमुपध्मा च गतिरष्टविधोष्मण॥ . .
(पाणिनिय शिक्षा. १४) । अत्रोष्मणः - ऊष्माबलविशेषः तस्य प्राधान्येनाभिव्यक्ति विसर्गो विभिन्नेषु स्थानेस्वष्टाभिर्विधाभिः परिणगत इति पाणिने राशयः। उपलक्षणमिदमूष्मप्रधानो हकारोऽपि बहुधा विपर्यस्यन् दृश्यते। एषां चाष्टाना विभिन्नाः संज्ञा अप्याह याज्ञवल्क्यः
“ओभावमागता योष्मा तां तु केलिं विनिर्दिशेत्। विवृतिप्रत्ययादष्मा विज्ञेया विकटानना॥ पादादौ च पदादौ च संयोगावग्रहेषु च। लोढातिलीढा विद्युच्च शषसेषु प्रकीर्तिता।। जिह्वामूले च रेफे च विज्ञेया विकटा शठा। उपध्मानीयसहितां पुष्पिणी तां विदुर्बुधाः।। अन्यत्रं या भवेदूष्मा सुलभां तां विनिर्दिशेत्। ऊष्मप्राधान्यमेतस्मात्तस्मात्तां यत्नतोडभ्यसेत्॥ इति
(वर्ण समीक्षा, पृ. ५०) तथैव शषसा अपि विपर्यस्यन्तो दृश्यन्ते। किंच वर्गाणां प्रथमतृतीयाश्च वर्णा एतदूष्मसंयोगे द्वितीय चतुर्थतां गच्छन्ति, द्वितीयचतुर्थाश्चोष्मापगमे प्रथमतृतीयतामूष्मकृतमेव महाप्राणत्वम्। एतद् वर्णघटितानां च पदानां प्रायेण शीघ्रं विपर्यासो दृश्यते। यथा “गृह" पदे हकारो यदा