________________
(xi) यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् । रावणं मन्यमाना मां सीता भीता भविष्यति ॥ ( वा. रा. ख. ३०.१७.१८) एतेनोक्त - रामायण - वचनमवलम्ब्य ये द्विजातीनामेव संस्कृतोच्चारणाधिकारं साधयन्ति, शूद्राश्च संस्कृताध्ययनात् तदुच्चारणाद् वा वहिः कुर्वन्ति तेऽपि भ्रान्ता एव सिद्धयन्ति । यदि द्विजातीनामेव संस्कृतोच्चारणं तदात्वे रुढ़मभविष्यत्, स्त्री-शुद्रौ च नाटकादिकाले एव प्राकृत भाषिणाभविष्यताम् प्राकृत भाषणाभविष्यताम्, तर्हि सीतायाः प्रवोधनाय प्रत्युत प्राकृतभाषैव समुपायोक्षयत् स्त्रीणां प्राकृतभाषायामेव विशेषेण परिचयात् ।
"
अनेन सुस्पष्टमिदं सिद्धं यत् प्राकृतमिति प्रसिद्धा भाषा संस्कृतादुत्पन्ना विनैव शिक्षां व्यवहारेण गृह्यमाणा चासीदिति । सर्वेऽपि शब्दपरिवर्त्तननियमाश्चतुर्धा विभज्य प्राक्तनैः शिष्टैः प्रदर्शिताः- वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ ” इति । एभिरेव चतुर्भि प्रकारैः शब्दानां परिवर्त्तनं भवति । संस्कृतशब्द निर्माणे प्रकृतिप्रत्ययादियोगे, पदस्य पदान्तरयोगे वा ये भवन्ति विकारास्तेषां नियमाः संस्कृत व्याकरणे प्रदर्शिता, तादृशं प्राकृतशब्द निर्माणे च ये ये विकारा भवन्ति तेषां नियमाः प्राकृतव्याकरणेषु दर्शिताः ।
इदन्तु दृश्यते ये नियमाः पाणिन्यादिभिः सन्ध्यादिषु प्रदर्शिता स्ते व्यापकरूपेण तत्तत्सूत्रप्रदर्शितानुपाधीन् विहाय स्वातन्त्र्येणापि भाषानिर्माणे साहाय्यमादधाना दृश्यन्ते । तेन प्राकृता एव विकारा यावदुपलम्भं सूत्रकारैर्निदिष्टा इत्यपिसिद्धयति । यथा “उदः स्थास्तम्भोः पूर्वस्य ” ( पा. सू. ८.४.६१ ) इति सूत्रेण उद् उपसर्गात् परः स्था धातोः सकारो न तिष्ठतीति पाणिनिना पदर्शितम्, परमुदुपसर्गविरहेऽपि स्थाधातुसकारलोपो दृश्यते पादस्थलम् - पग्थली, वनस्थलम् - वनथली ।
तथैव “झयो होडन्यतरस्याम्" इति वर्ण विशेषेभ्यः परस्य हकारस्यैव चतुर्थवर्णत्वं पाणिनिना विहितम्, परं वर्णान्तरेभ्यः परस्यापि चान्यत्रापि दृश्यते, यथा गुहागुफा, सिंह- सिंघ, इत्यादि ।