________________
(x)
बाहुल्येन व्यञ्जनाव्यवहितानां स्वराणां प्रयोग उपलभ्यते। तथैव मूलप्राकृतेपि संभाव्यत इति। तत एव "तितउ" पदं संगृहीतं स्यात् । तदेवं वैदिक भाषातः पूर्वमपि भाषान्तरसत्ताऽनुमीयते तच्च प्राकृतपदेनाभिलप्यमिति । प्राकृतस्य प्रवाह न केनापि रोद्धुं शक्यः, तदुच्चारणभेदकृता भाषाभेदा वाहुल्येन प्रववृत्तिरे । तदुक्तं हरिणा
"
“दैवी वाग्व्यवकीर्णेयमशक्तैरभिधातृभिः इत्यादिना (वाक्य, १.१५६) । महाभाष्यकाले हि वहवो भाषाभेदाः प्रवृत्ता इत्यनुमीयते तदुक्तमसकृन् महाभाष्यकृता पतञ्जलिना
भूयांसो ऽपशब्दाः, अल्पीयांसः शब्दाः, इति, एकैकस्य हि शब्दस्य वहवोऽपभ्रंशाः, तद्यथा - गौरित्यस्य शब्दस्य गावी, गोणी, गोता, गोपतलिके त्यादयो वहवोऽपभ्रंशाः, इति । इदमपि चोक्तम्
“समानायामर्थावगतौ शब्देन चापशब्देन च धर्म नियमः क्रियते शब्दे नैवार्थोऽभिधेयो नापशब्देनेति" (व्या. महा. पस्पशा ) ।
एतेन स्पष्टमिदं प्रतीयते यदपशब्द घटितयापि भाषया व्यवहरन्तिस्म लोकाः । तथापि च प्रकटी कृतस्वाभिप्रायोऽन्येन वुध्यते स्म ।
स एष भाषाभेदप्रवाहः क्रमेण वाहुल्य मापेदे । तत एव "संस्कृतम्”, " प्राकृतम्” इति नामभेदः प्रवृत्तो भाषासु । प्राकृतमपि च देशभेदेन बहून्, भेदानवाप्तम्।
विनैव शिक्षां प्रकृत्या या सम्मुच्चारिता आसीद् भाषा, सा प्रकृतियुक्ता प्राकृतमित्युच्यते स्म । या तु प्राप्तशिक्षासंस्कारैर्विद्वभिरुच्चार्यते स्म सा संस्कृतमिति नाम्ना व्यवह्रियते स्म । स एष मध्यमकालः ।
प्राकृतशब्दं हि द्वेधा व्युत्पादयन्ति समीक्षाचणाः । प्रकृतिः संस्कृतम् तत आगतं प्राकृतमिति प्राकृतव्याकरणकर्त्तार आहुः । प्रकृत्योच्चारितं प्राकृतमिति तु एैतिहासिकाः ।
संस्कृतशब्दो हि प्राचीनेषु ग्रन्थेषु वाल्मीकि रामायण एव प्रथमतः उपलब्धः। तथाहि सुन्दरकाण्डे सीता दर्शनसमये हनुमतो विचाराःअहं ह्यतितनुश्चैव वानरश्च विशेषतः ।
वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ॥