________________
तथा च पुराणेऽपि
प्रणवः
पूजा
जीवः
(ix)
“ प्रो हि प्रकृति जातस्य संसारस्य महोदधेः । नवं नावान्तरमिति " प्रणवं " वै विदुर्बुधाः " ॥ “प्र प्रपंचो न नास्ति वो युष्माकं प्रणवं विदुः । प्रकर्षेण नयेद्यस्मान्मोक्षं वः प्रणवं विदुः " ॥
(शिवपुराण १७.४.५)
पूर्जायते ह्यनेनेति वेदेष्वर्थस्य योजना । प्रयोगफलसिद्धिश्च जायते तेन कर्मणा ॥ मनोभावांस्तथा ज्ञानमिष्ट भोगार्थयोजनात् । पूजाशब्दार्थ एवं हि विश्रुतो लोकवेदयोः ॥ (शिवपुराण १६.२९-३०)
जीर्यते जन्मकालाद्यत्तस्माज्जीव इति स्मृतः । जन्यते तन्यते पाशैर्जीवशब्दार्थ एव हि ॥
(शिवपुराण १६.९९)
एवं च सुस्पष्टमिदमनुमीयते यत् " अङ्गिरस्" शब्द एव पूर्वं प्रचलितः पश्चात् “अङ्गिरा” शब्दतां गतः । एवम् “इन्ध" (इदन्द्र) शब्द एव पूर्वं प्रचलितः पश्चाच्च इन्द्र शब्दतां गत इत्यादि ।
तथा च मूलभूत शब्द घटिता काचिदन्यै वासीत् सर्वप्रथमा भाषा, यतो वैदिक-भाषायाः, संस्कृत भाषायाः, विभिन्नानां प्राकृतानाम्, , वैदेशीय भाषाणां चोत्पत्तिरूपपत्तिमवगाहते। सन्ति च वैदिक भाषायामपि तथा विधाः शब्दाः ये संस्कृतशब्दप्रकृतिप्रतिकूला भवन्ति । यथा “तितउ” शब्दः। एकस्मिन्नेव पदे अव्यवधानेन द्वयोः स्वरयोः प्रयोगः संस्कृतभाषायाः प्रकृतेर्विरुद्धः, अन्यत्र तथानुपल्लब्धेः । प्राकृतेषु हि " अ अ" इत्यादौ