SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ (viii) वरुणः – “यच्च वृत्वाऽतिष्ठत्तद् वरणोऽभवत्तं वा एतं वरणं सन्तं वरुण इत्याचक्षते परोक्षेण" . (गो. ब्रा., १.७) निरुक्ते च बहवयो व्युत्पत्तयः समुपलभ्यते। तद्यथाइन्द्रः - इरां दृणातीति वा, इरां ददातीति वा, इरां धारयत इति वा, इरां दारयत इति वा, इन्दवे द्रव्रतीति वा, इन्दौ रमत इति वा, इन्धे भूतानीति वा, “तद्यदेनं प्राणैः समैन्धस्तदिन्द्रस्येन्द्रत्वमिति” विज्ञायते, इदं करणादित्याग्रायणः। इदं दर्शनादित्यौपमन्यवः, इन्दतेर्वा ऐश्वर्यकर्मणः, इन्द्रञ्छत्रुणां दारयिता वा, द्रावयिता वा, आदरयिता च यज्वनाम्"। . (निरुक्त १०.१.८) निघण्टुः – “ते निगन्तव एव सन्तो निगमनानिघण्टव उच्यन्ते, अपि वा हननादेव स्युः समाहता भवन्ति। यद्वा समाहृता भवन्ति। (निरुक्त १.१.१) अन्तरिक्षम् - अन्तराक्षान्तं भवति, अन्तरेमे क्षियति इति वा, शरीरेष्वन्तरक्षयमिति वा"। . (निरुक्त २.३.१०) कुचरः - चरति कर्म कुत्सितम्, क्वाथं न चरतीति। (निरुक्त. १.६.२०) हिरण्यम् - हियते आयम्यमानमिति वा, हियते जनाज्जनमिति वा, हितं रमणं भवतीति वा, हर्यते वा स्यात् प्रेप्साकर्मणः। (निरुक्त. २.३.१०) शृङ्गम् - श्रयतेर्वा, श्रुणातेर्वा, शम्नातेर्वा, शरणायोद्गतमिति वा, शिरसो निर्गतमिति वा। (निरुक्त.. २.२.७) दधिक्राः - (अश्वः) – “दधत् क्रामतीति वा, दधत् क्रन्दतीति वा। (निरुक्त. २ अ. ७.१८) वासरम् - वासराणि, वेसराणि विवासनानि, गमनानीति वा। __(निरुक्त. ४.१.७) द्वाभ्यां शीतोष्ण रात्रिंदिवमनारतं सरन्ति गच्छन्तीति वेसराणि सन्ति वासराणि भवन्ति, पृषोदरादित्वात् वे, वा भावौ स्तः। विंशतिः - द्विर्दशतः। (निरुक्त. ३.२.१०) इत्यादि।
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy