________________
. 153
अयुक्तविधिः
रजतम् > रअदं :. "रजतम्" इति स्थिते “कगचजतदपयवां प्रायो लोपः” (प्रा. २. २) इत्यनेन सूत्रेण “ज्" कारस्य लोपे “रअतम्" इति जाते "ऋत्वादिषु तोदः" (प्रा. २.७) इत्यनेन सूत्रेण अनादौ विद्यमाने 'त्' कारस्य स्थाने 'द्' कारे ‘रअदम्' इति प्राप्ते “सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके “सु" इत्यस्य बिन्दुत्वे (अनुस्वारे) “रअदं" रूपं सिद्धम्।
त लोपः - कृतम् > कअं "कृतम्" इति स्थिते “ऋतोडत्" (प्रा. १.२७) इत्यनेन सूत्रेण आदि ऋकार (ऋत्) स्य स्थाने अकारे (अत्) “कतम्" इति जाते "कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'त्' कारस्य लोपे “कअ" इति जाते “सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके “सु" इत्यस्य बिन्दुत्वे (अनस्वारे) “कअं" रूपं सिद्धम्।
_ वितानम् > विआणं "वितानम्" इति स्थिते “कगचजतदपयवां प्रायो लोपः" (प्रा. २.२) इत्यनेन सूत्रेण “त्" कारस्य लोपे “विआन" इति स्थिते "नोणः सर्वत्र" (प्रा. २.४२) इत्यनेन सूत्रेण "न्" कारस्य 'ण' कारे 'विआण' इति रूपं जाते “सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके "सु" इत्यस्य बिन्दुत्वे (अनुस्वारे) “विआणं" रूपं सिद्धम्।
_ "द" लोपः - गदा > गआ ... “गदा" इति स्थिते “कगचजतदपयवां प्रायो लोपः” (प्रा. २. . २) इत्यनेन सूत्रेण “द्" कारस्य लोपे 'गआ' इति रूपं जातम्।
मदः > मओ "मदः” इति स्थिते “कगचजतदपयवां प्रायो लोपः" (प्रा. २. २) इत्यनेन सूत्रेण 'द्' कारस्य लोपे “मअ" इति जाते “अत ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा-विभक्ति एकवचने 'सु' इत्यस्य ‘ओत्वे', "मओ" रूपं सिद्धम्।