SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ 152 प्राकृत व्याकरणम् जाते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण. अदन्त शब्दस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य "ओत्वे", "णउलो” इति रूपं सिद्धम्। “ग्" लोपः - सागरः > साअरो. ___ “सागरः" इति स्थिते “कगचजतदपयवां प्रायो लोपः” (प्रा. २. २) इत्यनेन सूत्रेण 'ग्' कारस्य लोपे “साअर" इति जाते “अत ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु" इत्यस्य “ओत्वे" “साअरो" इति रूपं सिद्धम्। नगरम् > "अरं “नगर” इति स्थिते “कगचजतदपयवां प्रायो लोपः” (प्रा. २. २) इत्यनेन सूत्रेण 'ग्' कारस्य लोपे 'नअर' इति जाते “नोणः सर्वत्र" (प्रा. २.४२) इति सूत्रेण 'न्' कारस्य "ण" कारे 'णअर' इति प्राप्ने "सोर्बिन्दुनपुंसके" (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसकलिङ्गी शब्दानाम् "सु" इत्यस्य अनुस्वारे प्राप्ते “णअरं" रूपं सिद्धम्। च" लोपः - वचनम् > वअणं .. "वचनम्" इति स्थिते “कगचजतदपयवां प्रायो लोपः" (प्रा. २. २) इत्यनेन सूत्रेण “च्" कारस्य लोपे “वअनम्" इति जाते “नोणः सर्वत्र" (प्रा. २.४२) इत्यनेन सूत्रेण "न्" कारस्य "ण्" कारे वअणम् इति जाते “सोर्बिन्दुनपुंसके” (प्रा. ५.३) इत्यनेन सूत्रेण नपुंसके सु इत्यस्य बिन्दुत्वे (अनुस्वारे) “वअणं" रूपं सिद्धम्। सूची > सूई । - सूची इति स्थिते “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन “च्" कारस्य लोपे ‘सूई' इति रूपं प्राप्तम्। ... "ज" लोपः - गजः > गओ "गज" इति स्थिते “कगचजतदपयवां प्रायो लोपः” (प्रा. २. २) इत्यनेन सूत्रेण “ज्” कारस्य लोपे 'गअ' इति स्थिते “अत ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने "सु" इत्यस्य "ओ"त्वे "गओ" इति रूपं सिद्धम्।
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy