________________
अयुक्तविधिः सूत्रार्थः
149
सम्पूर्ण द्वितीय परिच्छेदे अन्तर्गतानाम् सूत्राणाम् विधानं तु अयुक्त व्यञ्जन समुदायस्य अनादौ अर्थात् मध्य तथा अन्त्य वर्णे भवति ।
समन्वयः
द्वितीय परिच्छेदे असंयुक्त व्यञ्जनवर्णेषु केवलं शब्दस्य मध्यस्थ तथा अन्त्य व्यञ्जनानाम् लोपः तथा विकारस्य कार्य अनुष्ठीयते । सुत्रे " अयुक्तस्य" पदस्य ग्रहणं " अर्धः > अग्घो” आदि शब्दानाम् संयुक्त व्यञ्जनस्य विकाराप्राप्ति तथा " अनादौ” इत्यस्य ग्रहणं "कमलं” आदि शब्देषु आदि व्यंजनस्य लोपाऽभाव निमित्तं । २. कगचजतदपयवां प्रायो लोपः
सुबोधिनी
कादीनां व्यञ्जनमात्राणां लोपविधौ ग्रहणम्, अकारस्त्वेषामुच्चारणमात्रार्थम्। यथा तस्माच्छसो नः पुंसीत्यादौ नकाराद्युत्तरमकारः । कादीनामसंयुक्तानामनादौ स्थितानां लोपः स्यात् । वउलो वकुलः । साअरो सागरः रअणा रचना रअणी रजनी सुरअं सुरतं मअणो मदनः रूअं रूपं आउहं आयुधं कई कविः । अयुक्तस्येति किम् ? अनादाविति किम् । कंकणो कङ्कणः । गंगा गङ्गेत्यादयः । 'प्रायः शब्दः कगादीनां लोपातिव्यातिबाधकः । तेन अकोवणो अकोपनः सगअं स्वगतं चूचुअं चूचुकं सदअं सदयमित्यादयः सिध्यन्ति । 'ईषत्स्पष्टः प्रयोज्यो यः क्वचिल्लुप्तेषु कादिषु ।' कणयं कनकं चणया चनकाः । गयणं गगनं वयणं वदनं मयणो मदनः इत्यादौ ॥ २ ॥
सञ्जीवनी
कगचादीनां व्यञ्जनमात्रं प्रत्येकं निर्दिश्यते । अकारस्त्वेषामुच्चारणार्थः। ततो द्वन्द्वः। एषां कादीनां नवानामयुक्तानामसंयोगवतामनादौ मध्ये स्थितानां प्रायो बाहुल्येन लोपः । कस्य - बउलो वराई बकुलवराक्योः । गस्य - साअरो णअरं सागरनगरयोः। चस्य - रअणा सुइरं रचनासुचिरयोः । जस्य-मुअणो रअणी सुजनरजन्योः। तस्य - असई सुरअं असतीसुरतयोः । दस्य-मअणं सअणं मदनसदनयोः। पस्य- रूअं भूओ रुपभूपयोः । यस्य- आउहं सरऊ