SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः अयुक्तविधिः १. अयुक्तस्यानादौ सुबोधिनी अतः परं यत्कार्य तदयुक्तस्य हलन्तरांयुक्तस्याऽनादौ मध्ये वर्णयोः स्थितस्य वेदितव्यम्। अधिकारसूत्रमिदम्॥१॥ सञ्जीवनी ___ अधिकारोऽयम्। यदित ऊर्ध्वमनुक्रमिष्यामस्तदयुक्तस्यासंयोगवतः अनादौ मध्ये स्थितस्य हलो भवतीति वेदितव्यम्। अयुक्तस्येति शषोः स (सूत्र २.३९) इत्यतः प्रागयमधिकारः। अनादावित्यस्य तु आदेर्यो ज (सूत्र २.२८) इत्यतः प्राक्॥१॥ प्राकृतमञ्जरी अधिकारस्त्वयुक्तस्येत्यापरिच्छेदपूरणात्। अनादाविति चादेर्योज इत्यस्माद्विधेः पुरा॥ अयुक्तस्य हलान्येन स्वेन वा विधिरुत्तरः। अनादौ वर्तमानस्य पदेष्वित्यवगम्यताम्॥ १॥ मनोरमा अधिकारोऽयम् इत उत्तरं यद्वक्ष्यामस्तदयुक्तस्य व्यंजनस्यानादौ वर्तमानस्य कार्य भवतीत्येवं वेदितव्यम्। वक्षते कादीनां लोपः। मउड़। अयुक्तस्येति किम्? अग्घो। अक्को। “अनादौ” इति किम्? कमलं अयुक्तस्येतदापरिच्छेद समाप्तेः। अनादाविति च आ जकारविधानात्॥ अम्बिका अयमधिकार सूत्रम्। आपरिच्छेदम् “अयुक्तस्य" पदस्य तथा “अनादौ” पदस्याधिकारः “य्' कारस्य स्थाने "ज्' कारस्य विधानं सूत्रं यावदर्थात् “आदेर्यो जः” (२.३१) इति सूत्रं पर्यन्तं अधिकृतम्।
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy