SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ 146 सूत्रार्थः प्राकृत व्याकरणम् "सौन्दर्यम्" आदि मौज्जायनः, शौण्डः, कौक्षेयकः, दौवारिकः) संस्कृत शब्देषु आदिषु विद्यमानेषु " औ" (औत्) कारस्य स्थाने प्राकृते 'उ' कारः (उत्) भवति । यथा सौन्दर्यम् > सुन्दरं " " सौन्दर्यम्” इति स्थिते " उत्सौन्दर्यादिषु ” (प्रा. १. ४४ ) इत्यनेन सूत्रेण आदि - " औ" कारस्य "उ" कारे "सुन्दर्यम्” इति स्थिते, " तूर्य धैर्य सौन्दर्याश्चर्यपर्यन्तेषु रः” (प्रा. ३.१८) इत्यनेन सूत्रेण “र्य्” समुदायस्य 'र्' कारे "सुन्दरम्” इति जाते “ए शय्यादिषु ” ( प्रा. १. ५) इत्यनेन सूत्रेण 'अ' कारस्य 'ए' कारे “सुन्देरम्” इति स्थिते "सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके “सु" इत्यस्य बिन्दुत्वे (अनुस्वारे) "सुन्देरं" इति रूपं सिद्धम् । मौञ्जायनः > मुञ्जाअणो "मौञ्जायन " इति स्थिते " उत्सौन्दर्यादिषु ” (प्रा. १.४४) इत्यनेन सूत्रेण आदि - " औ" कारस्य "उ" कारे " मुञ्जायन” इति स्थिते “कगचजतदपयवां' प्रायो लोपः " (प्रा. २.२) इत्यनेन सूत्रेण “य्” कारस्य लोपे " मुञ्जाअन" इति स्थिते, “नो णः सर्वत्रः " (प्रा. २.४२ ) इत्यनेन सूत्रेण “न्” कारस्य " ण्” कारे "मुञ्जाअण” इति प्राप्ते " अत ओत् सोः” (प्रा. 5. 1) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्ति एकवचने "सु” इत्यस्य "ओत्वे", "मुञ्जाअणो" इति रूपं सिद्धम् । कौक्षेयकः > कुक्खेअओ " "कौक्षेयकः" इति स्थिते “उत्सौन्दर्यादिषु ” (प्रा. १.४४) इत्यनेन सूत्रेण " आदि - औ" कारस्य "उ" कारे "कुक्षेयकः” इति स्थिते, “ष्कस्कक्षां खः” (प्रा. ३.२९) इत्यनेन सूत्रेण “क्ष्" इत्यस्य " ख्” कारे "कुखेयक” इति जाते, "शेषादेशर्योर्द्वित्वमनादौ " (प्रा. ३.५० ) इत्यनेन सूत्रेण “ख” इत्यस्य द्वित्वे “कुख्खेयक" इति जाते “वर्गेषु युजः पूर्वः " (प्रा. ३. ५१) इत्यनेन सूत्रेण "ख्” इत्यस्य "क्” कारे "कुक्खेयक” इति
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy