SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 145 अज्विधिः ४४. उत्सौन्दर्यादिषु सुबोधिनी : औत उत्त्वं स्यात्। सौंदर्यशौण्डौ पौलोमी औपरिष्टकमौष्टिको। दौवारिकश्चैवमाद्याः सौन्दर्याद्याः प्रकीर्तिताः। सुंदेरं सुंडो पुलोमी उपरिट्ठिअं मुट्ठिओ दुआरिओ।। ४४॥ सञ्जीवनी ____ सौन्दर्यसदृशेषु शब्देषु औकारस्य उत्त्वं स्यात्। सुन्दरं सौन्दर्यम्। शय्यादिषु इत्येत्त्वम्। तूर्यधैर्यादिना यस्य रः। सुण्डो शौण्डः। शषोः स इति शस्य सः। पुलोमी पौलोमी। उवविट्ठअं औपविष्टकम्। पो व इति वः। ष्टस्य ठ इति ठः। तस्य द्वित्वे वर्गे युजः पूर्व इति टः। कगचादिना कलोपः। एवं मुट्ठिओ, मौष्टिकम्। दुआरिओ दौवारिकः। सौन्दर्यशौण्डौ पौलोमी औपविष्टकमौष्टिको। दौवारिकस्तथेत्याद्याः सौन्दर्याद्याः प्रकीर्तिताः॥४४॥ प्राकृतमञ्जरी औकारस्य भवेदुत्त्वं सौन्दर्यादिषु तद्यथा। सौन्दर्य्यमपि सुन्देरं शौण्डः सुण्डो निगद्यते॥ सौन्दर्य-शौण्ड-कौक्षेयास्तथा मौञ्जायनोऽपि वा। तथा दौवारिकश्चेति सौन्दर्यादिरयं गणः॥४४॥ मनोरमा सौन्दर्य इत्येवमादिषु औकारस्य उकारो भवति। सुन्देरं। मुञ्जाअणो। सुण्डो। कुक्खेअओ। दुव्वारिओ। सौन्दर्य-मौञ्जायन-शौण्ड-कौक्षेयक, दौवारिकाजः। अम्बिका ___“आदेरतः” (प्रा. १.१) इत्यतः “आदेः” “औत ओत्” (प्रा. १. ४१) इति सूत्रतः “औतः" च पदद्वयमनुवर्तते।
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy