________________
144
४३. आ (त्) च गौरवे
सुबोधिनी
औत आत्त्वम्, चकारात् अउदित्यपि । गारवं गउरवं ॥ ४३ ॥
सञ्जीवनी
अउदित्यनुवर्तते । गौरवशब्दे औकारस्य आकारादेशो भवति अउच्च। गारवम् गउरवं गौरवम्॥ ४३ ॥
प्राकृतमञ्जरी
प्राकृत व्याकरणम्
मनोरमा
गौरव - शब्दे औकारस्य आकारो भवति । चकारादउत्वं च । गारवं,
गउरवं ।
अम्बिका
"
" औत ओत् ” (प्रा. १.४१) इति सूत्रतः “ औतः” इति पदमनुवर्त्तते ।
सूत्रार्थः
यथा
औकारस्य भवेदात्त्वं गौरवे चादउस्तथा ।
तेन स्याद् गारवमिति ज्ञेयं गउरवं तथा ॥ ४३॥
"गौरवम्” इति संस्कृत शब्दस्य " औ" (औत्) कारस्य स्थाने प्राकृते "आ" तथा " अउ" उभयं आदिश्यते ।
-
गौरवम् > गारवं, गउरखं
“गौरवम्” इति स्थिते “आ (त्) च गौरवे” (प्रा. १.४३ ) इत्यनेन सूत्रेण " औ" कारस्य "आ" कारे "गारव” इति जाते "सोर्बिन्दुनपुंसके" (प्रा. ५.३० ) इत्यनेन सूत्रेण नपुंसके “सु” इत्यस्य बिन्दुत्वे (अनुस्वारे) " गारव' इति रूपं सिद्धम् ।
पक्षे, "गौरव” इत्यस्य " औ" कारस्य " अउ" इति आदेशे "गउरवं" इति रूपं सिद्धम् ।