SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ अज्विधिः 143 "पौर" शब्दस्य आदि " औ" कारस्य " अउ" इति आदेशे पउर इति स्थिते “अत ओत् सोः " (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु” इत्यस्य "ओत्वे”, “पउरो” इति रूपं सिद्धम् । कौरवः > कउरवो " " कौरवः" इति स्थिते " पौरादिष्वउ (त्)" (प्रा. १.४२ ) इत्यनेन सूत्रेण "आदि-औ" कारस्य " अउ" इति आदेशे "कउरव” इति स्थिते, "अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने सु इत्यस्य "ओत्वे”, “कउरवो” इति रूपं सिद्धम् । पौरुषम् > पउरिसं " पौरुषम्” इति स्थिते " पौरादिष्वउ (त्)" (प्रा. १.४२ ) इत्यनेन सूत्रेण आदि - " औ" कारस्य " अउ" इति आदेशे “पउरुषम्” इति जाते " इत्पुरुषे रोः ” (प्रा. १.२३ ) इत्यनेन सूत्रेण “रू" इत्यस्य 'उ' (उत्) कार-स्थाने 'इ' (इत्) कारादेशे "पउरिषम्" इति जाते “शषोः सः” (प्रा. २.४३) इत्यनेन सूत्रेण "ष्" कारस्य "स्” कारे "पउरिस" इति प्राप्ते "सोर्बिन्दुनपुंसके” (प्रा. 5.30) इत्यनेन सूत्रेण नपुंसके "सु" इत्यस्य बिन्दुत्वे "पउरिसं" इति रूपं सिद्धम् । गौड़ > गउड़ो " गौड़ : " इति स्थिते " पौरादिष्वउ (त्)" (प्रा. १.४२) इत्यनेन सूत्रेण आदि - औ कारस्य ." अउ" इति आदेशे “गउड़" इति जाते, " " 'अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु" इत्यस्य "ओत्वे” “गउड़ो" इति रूपं सिद्धम् । रौरवः > रउरवो " अत 'रौरवः इति स्थिते " पौरादिष्वउ (त्)” (प्रा. १.४२) इत्यनेन सूत्रेण आदि-औ कारस्य 'अउ" इति आदेशे "रउरव" इति जाते, 44 44 "" ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने "सु" इत्यस्य 'ओत्वे", "रउरवो" इति रूपं सिद्धम् ।
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy