________________
142
सज्जीवनी
औत इत्यनुवर्त्तते उत्सौन्दर्यादिष्विति यावत् । पौर इत्यादिषु शब्देषु आदेरौकारस्य अउत् स्यात् । अत्त्वबाधः । पउरो पौरः । पउरिसं पौरुषम् । इत् पुरुषे रोरिति रुकार उकारस्य इत्त्वम् । मउणं मउली मौनमौलिशब्दयोः । रउरवो रौरवः । कउरवा कौरवाः । जस्प्रत्ययस्य जश्शसोर्लोप इति लोपः । जश्शस्ङस्यांसु दीर्घ इति दीर्घः । गउडा गौडाः । कउसलं कौशलम् । सउहं सौधम्।
पौरपौरुषमौनानि मौलिरौरवकौरवाः ।
गौडकौशलसौधानि पौराद्या एवमादयः ॥
प्राकृतमञ्जरी
प्राकृत व्याकरणम्
पौराकृतिषु शब्देषु औकारस्य भवेदः । पौरः स्यात् पउरो तद्वद् ज्ञेयमाकृतिजे गणे ॥ पौरश्च पौरवश्चैव पौरुषं कौरवस्तथा ।
रौद्रश्चेति विचेतव्यः पौराकृतिगणो बुधैः ॥ ४२॥
मनोरमा
पौर इत्येवमादिषु शब्देषु औकारस्य " अउ" इत्ययमादेशो भवति । पउरो । कउरवो। पउरिसो ॥ पौर- कौरव - पौरुषाणि ॥ आकृति गणोऽयम् । कौशले विकल्पः कउसलं, कोसलं ॥ कौशलम् ॥
अम्बिका
" आदेरतः” (प्रा. १.१) इति सूत्रतः " आदेः " " ओत ओत् ” (प्रा. १.४१) इत्यतः ‘“औतः” पदद्वयमनुवर्त्तते ।
सूत्रार्थः
-
पौर आदि (कौरवः, पौरषम्, गौड़, रौरबः) संस्कृत शब्देषु आदि 'औ" कारस्य स्थाने प्राकृते "अउ" (अउत्) भवति ।
44
यथा
पौरः > पउरो
"पौरः" इति स्थिते " पौरादिष्वउ (त्)" (प्रा. १.४२) इत्यनेन सूत्रेण