SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ अज्विधिः 141 " ण्" कारे जोवणम् इति जाते, “नीड़ादिषु च " (प्रा. ३.५२) इत्यनेन सूत्रेण 'व्' कारस्य द्वित्वे "जोव्वणम्" इत्यत्र “सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके "सु” इत्यस्य बिन्दुत्वे (अनुस्वारे) "जोव्वणं” इति रूपं सिद्धम् । कौस्तुभः > कोत्थुहो "कौस्तुभः" इति स्थिते " औत ओत् ” (प्रा. १.४१ ) इत्यनेन सूत्रेण आदि " औ" कारस्य "ओ" कारे "कोस्तुभः" इति जाते “स्तस्य थः” (प्रा. ३.१२) इत्यनेन सूत्रेण “स्त्" इत्यस्य “थ्” कारे “कोथुभ” इति जाते, “शेषादेशयोर्द्वित्वमनादौ” (प्रा. ३.५० ) इत्यनेन सूत्रेण “थ्” इत्यस्य द्वित्वे "कोथ्थुभ" इति स्थिते, "वर्गेषु युजः पूर्वः” (प्रा. ३. ५१) इत्यनेन सूत्रेण “थ्" कारस्य " त्" कारे "कोत्थुभ" इति जाते, “खघथधभां हः” (प्रा. २.२७) इत्यनेन सूत्रेण “भ्" इत्यस्य "ह" कारे "कोत्थुह” इति जाते “अत ओत् सो: " ( प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्ति एकवचने “सु" इत्यस्य " ओत्वे” "कोत्थुहो" इति रूपं सिद्धम् । कौशाम्बी > कोसम्बी "कौशाम्बी " इति जाते " औत ओत् ” (प्रा. १.४१ ) इत्यनेन सूत्रेण " औ" कारस्य "ओ" कारे "कोशाम्बी" इति स्थिते "शषोः सः” (प्रा. २.४३) इत्यनेन सूत्रेण “श्” इत्यस्य "स्” कारे "कोसाम्बी" इति प्राप्ते “अदातोयथादिषु वा ” (प्रा. १.१० ) इत्यनेन सूत्रेण “आ” कारस्य “अ” कारे " कोसम्बी" इति रूपं सिद्धम् । ४२. पौरादिष्वउ (त्) सुबोधिनी एषु औतो अउत् इत्यादिश्यते । पौरपौरवमौनानि मौलिरौरवकौरवाः । गोडकौशलसौधनि पौराद्या एवमादयः ॥ पउरं पउरिसं मउणं मउली रउरवो। कउरवो गउडो । कउसलं हं ॥
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy