SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ 140 प्राकृत व्याकरणम् निषेधात्। जोव्वणं यौवनम् । आदेर्यो ज इति यस्य जः । नीडादिष्विति वस्य द्वित्वम् । कोसंवी कौशाम्बी। अदातो यथादिषु वेत्यत्यम् । कोत्थहो कौस्तुभः । स्तस्य थ इति थः । तस्य द्वित्वे वर्गे युजः पूर्व इति तः । सोमित्ती सौमित्रिः । कोमुई कौमुदी ॥ प्राकृतमञ्जरी औकारस्य भवेदोत्त्वमुत्सर्गेण पदे पदे । कौमुदी कोमुई तद्वत् कौस्तुभचापि कोत्थुहो ॥ मनोरमा औकारस्यादेरोकारो भवति । कौमुई, जोव्वणं, कोत्थुहो, कोसम्बी ॥ कौमुदी, यौवनम् कौस्तुम, कौशाम्बी। अम्बिका 'आदेरतः " ( प्रा. १.१) इति सूत्रतः “ आदेः " पदमनुवर्त्तते । सूत्रार्थः संस्कृत शब्देषु आदिषु विद्यमानेषु " औ" (औत्) कारस्य स्थाने प्राकृते "ओ" (ओत्) कारः भवति । यथा "" कौमुदी > कोमुई "कौमुदी" इति स्थिते " औत ओत् ” (प्रा. १.४१ ) इत्यनेन सूत्रेण " औ" कारस्य "ओ" कारे " कोमुदी" इति जाते, कगचजतदपयवां प्रायो लोपः (प्रा. २.२) इत्यनेन सूत्रेण " द्" कारस्य लोपे " कोमुई " इति रूपं सिद्धम् । यौवनम् > जोव्वणं “यौवनम्” इति स्थिते " औत ओत् ” ( प्रा. १.४१ ) इत्यनेन सूत्रेण आदि " औ" कारस्य "ओ" कारे "योवनम्” इति जाते “आदेर्योजः” (प्रा. २.३१) इत्यनेन सूत्रेण आदि "य्” कारस्य “ज्” कारे " जोवनम्" इति स्थिते, “नोणः सर्वत्रः " (प्रा. २.४२) इत्यनेन सूत्रेण “न्” कारस्य
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy