________________
अज्विधिः
वत्वम् । पवट्ठो, पओट्टो ॥
अम्बिका
सूत्रेऽस्मिन् पूर्वसूत्रात् अनुवृतिर्न वर्त्तते ।
139
सूत्रार्थः
" प्रकोष्ठ " इति संस्कृत शब्दस्य "ओ" (मध्य) कारस्य स्थाने प्राकृते विकल्पेन “अत्" प्राप्ते "क्" कारस्य स्थाने "व्" कारः भवति ।
यथा
प्रकोष्ठः > पवट्ठो
“प्रकोष्ठः” इति स्थिते “ सर्वत्र लवराम्" (प्रा. ३.३) इत्यनेन सूत्रेण 'र्' कारस्य लोपे "पकोष्ठ" इति स्थिते, "ओतोऽद् वा प्रकोष्ठे कस्य वा” (प्रा. १.४० ) इत्यनेन सूत्रेण मध्य "ओ" कारस्य "अ" कारे, पकष्ठ इति जाते 'क्' कारस्य स्थाने 'व्' कारे च प्राप्ते "पवष्ठ” इति स्थिते "ष्ठस्य ठः” (प्रा. ३.१० ) इत्यनेन सूत्रेण "ष्ठ्" कारस्य "ठ्” कारे " पवठ" इति स्थिते, " शेषादेशयोर्द्वित्वमनादौ" (प्रा. ३. ५०) इत्यनेन सूत्रेण “ठ्” इत्यस्य द्वित्वे, "पवठ्ठ” इति जाते “वर्गेषु युजः पूर्व:" (प्रा. ३.५१) इत्यनेन सूत्रेण "ठ्" इत्यस्य "ट्" कारे " पवट्ठ" इति प्राप्ते " अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु" इत्यस्य "ओत्वे”, “पवट्ठो” इति रूपं सिद्धम् ।
४१. औत ओत्
सुबोधिनी
औकारस्य ओत्त्वं स्यात् । जोव्वणं यौवनम् ॥ ४१ ॥
सञ्जीवनी
औत औकारस्य ओकारादेशः स्यात् । तकारोऽसन्देहार्थः । सोहग्गं । दोहग्गं सौभाग्यदौर्भाग्ययोः । खघथादिना भस्य हः । अधो मनयामिति यलोपः । शेषादेशादिना गस्य द्वित्वम् । हकारस्य न भवति । न रहोरिति