________________
138
प्राकृत व्याकरणम् अम्बिका
“आदेरतः” (प्रा. १.१) इत्यतः “आदेः” तथा “ऐत एत्” (प्रा. १.३५) इति सूत्रतः “ऐत" इति पदद्वयमनुवर्तते। सूत्रार्थः
"धैर्य' इति संस्कृत शब्दस्य आदि “ऐ" (ऐत्) कारस्य स्थाने प्राकृते विकल्पेन “ई” (ईत्) कारः भवति। यथा
__ धैर्यम् > धीरं "धैर्यम्" इति स्थिते "ईद् धैर्ये" (प्रा. १.३९) इत्यनेन सूत्रेण आदि “ऐ” कारस्य “ई' कारे "धीर्यम्" इति जाते, “तूर्य धैर्यसैन्दर्याश्चर्यपर्यन्तेषु रः” (प्रा. ३.१८) इत्यनेन सूत्रेण “य्' समुदायस्य 'र' कारे “धीरम्" इति प्राप्ते “सोर्बिन्दुनपुंसके" (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके “सु" इत्यस्य बिन्दुत्वे (अनुस्वारे) "धीरं" इति रूपं सिद्धम्। ४०. ओतोऽद् वा प्रकोष्ठे कस्य वा सुबोधिनी
ओकारस्य उत्त्वं ककारस्य वकारश्च युगपद्वा भवेत्। पवुट्ठो, पओट्ठो॥ सञ्जीवनी
प्रकोष्ठशब्दे ओकारस्य उत्त्वं ककारस्य वकारश्च युगपद्वा भवति। पवुट्ठो, पओट्ठो, प्रकोष्ठः। सर्वत्र लवरामिति रेफलोपः। ष्टस्य ठ इति ठः। तस्य द्वित्वे वर्गे युजः पूर्व इति टः। पक्षे कगचादिना कलोपः॥ प्राकृतमञ्जरी
अत्त्वमोतः प्रकोष्ठे तत्सन्नियोगेन कस्य च।
वत्वं वा स्यात् पवटुं वा पओटुं वा निगद्यते॥ मनोरमा
प्रकोष्ठ-शब्दे ओकारस्य अकारो भवति वा तत्संयोगेन च ककारस्य