SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 137 अज्विधिः ____137 मनोरमा सैन्धवशब्दे ऐकारस्य इकारो भवति। सिन्धवं। अम्बिका - आदेरतः (प्रा. १.१) इति सूत्रतः “आदेः", तथा “ऐत एत्" (प्रा. १.३५) इति सूत्रतः “ऐतः" पदद्वयमनुवर्तते। सूत्रार्थः ___ “सैन्धव" इति संस्कृत शब्दस्य आदि “ऐ" (ऐत्) कारस्य प्राकृते "इ" (इत्) कारः भवति। यथा सैन्धवम् > सिन्धवं “सैन्धवम्" इति स्थिते “इत्सैन्धवे" (प्रा. १.३८) इत्यनेन सूत्रेण "सैन्धव" शब्दस्य आदि "ऐ" कारस्य "इ" कारे “सिन्धव" इति प्राप्ते “सोर्बिन्दुनपुंसके" (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके "सु" इत्यस्य बिन्दुत्वे (अनुस्वारे) "सिन्धवं" इति रूपं सिद्धम्। ३९. ईद् धैर्ये सुबोधिनी .. इत्त्वं स्यात्। धीरं। ऐत इति निवृत्तम्। सञ्जीवनी धैर्यशब्दे ऐकारस्य ईत् स्यात्। धीरम्। तूर्यधैर्यादिना रः॥ प्राकृतमञ्जरी धैर्यशब्दे य ऐकार ईत्त्वं यस्य विधीयते। धैर्यशब्दे ततो प्राज्ञा धीरमित्यनुशासते॥ मनोरमा धैर्यशब्दे ऐकारस्य ईकारो भवति। धीरं॥
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy