________________
136
प्राकृत व्याकरणम् मनोरमा
दैव शब्दे ऐकारस्य “अइ" इत्ययमेवमादेशो भवति वा। दइवं, देव्वं, अनादेशपक्षे नीड़ादित्वात् द्वित्वम्। अम्बिका _ "आदेरतः" (प्रा. १.१) इत्यतः “आदेः", "ऐत एत्” (प्रा. १. ३५) इति सूत्रतः “ऐतः", तथा “दैत्यादिष्वइ (त्)" (प्रा. १.३६) इति सूत्रतः “अइ" एतानि पदानि अनुवर्तन्ते।
सूत्रार्थः
“दैव” इति संस्कृत शब्दस्य आदि “ऐ" (ऐत्) कारस्य प्राकृते विकल्पेन “अइ" भवति। यथा
दैवम् > देव्वं, दइवं “दैवम्" इति स्थिते "दैवा वा" (प्रा. १.३७) इत्यनेन सूत्रेण "दैव” शब्दस्य आदि "ऐ" कारस्य विकल्पे “अइ” इति आदेशे "दइव" इति जाते सोर्बिन्दुनपुंसके" (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) “दइवं" इति रूपं सिद्धम्। यत्र “अइ" न आदिश्यते, तत्र तु नीड़ादिगणे पठितत्वात् “व्" कारस्य द्वित्व भवति। ३८. इत्सैन्धवे सुबोधिनी ..इत्त्वं स्यात्। एत्त्वापवादः। सिंधवं॥३९॥ सञ्जीवनी __ सैन्धवशब्दे ऐकारस्य इकारादेशः स्यात्। एत्त्वापवादः। सिंधवं सैन्धवम्॥ ३९॥ प्राकृतमञ्जरी
सैन्धवे योऽयमैकारस्तस्येकारो विधीयते। ततः सैन्धवमित्येतत् सन्तः शंसन्ति सिन्धवं॥