________________
135
अज्विधिः “वइसाख" इति जाते “खघथधभां हः” (प्रा. २.२७) इत्यनेन सूत्रेण “ख्" इत्यस्य "ह" कारे “वइसाह" इति प्राप्ते “अत ओत् सोः"" इत्यनेन सूत्रेण (प्रा. ५.१) अदन्तस्य प्रथमा विभक्ति एकवचने "सु" इत्यस्य “ओत्वे" “वइसाहो' इति रूपं सिद्धम्।
वैशम्पायनः > वइसंपाअणो “वैशम्पायनः" इति स्थिते “दैत्यादिष्वइ (त्)" (प्रा. १.३६) इत्यनेन सूत्रेण “आदि-ऐ" कारस्य “अइ" इति आदेशे “वइशम्पायन" इति जाते “शषोः सः” (प्रा. 2.43) इत्यनेन.सूत्रेण "श्" कारस्य "स्।' कारे “वइसम्पायन" इति स्थिते “ययि तदवर्गान्त” (प्रा. ४.१७) इत्यनेन्ज सूत्रेण 'म्' इत्यस्य पक्षे अनुस्वारे “वइसंपायन" इति जाते, "कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'य्' इत्यस्य .. लोपे, “वइसंपाअन" इति जाते “नोणः सर्वत्र" (प्रा. २.४२) इत्यनेन सत्रेण "न" कारस्य “ण” कारे, "वइसंपाअण इति प्राप्ते, “अत' ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने "सु" इत्यस्य “ओत्वे", "वइसंपाअणो” इति रूपं सिद्धम्। समन्वयः
सदानन्द आचार्यस्य मतेन, पूर्वसूत्र “ऐत एत्" (प्रा. १.३५) इत्यनेन सूत्रेण “ऐ" इत्यस्य “ए” कारे उभयरूपं प्राप्तम्। ३७. दैवा वा सुबोधिनी
अइत्त्वं वा स्यात्। दइवं पक्षे। एत्त्वमेव देव्वं ॥ ३८॥ सञ्जीवनी
दैवशब्दे ऐकारस्य अइत् स्याद् वा। दइवं देव्वं दैवम्। एकारादेशपक्षे सेवादिष्विति वस्य द्वित्वम्॥ ३८॥ प्राकृतमञ्जरी
दैवशब्दे य ऐकारस्तस्य स्यादेविकल्पतः। दैवं निगद्यते देव्वं पक्षे दइवमुच्यते॥